________________
३ परिच्छेदः] न्यायबिन्दुटीका क्षणे सन्निपतन्नसमर्थावस्थाधानयोग्यो भवति । द्वितीये विरुद्धमसमर्थ करोति । तृतीये त्वसमर्थे निवृत्ते तद्देशमाक्रामति । तत्रालाको गतिधर्मा क्रमेण जलतरङ्गन्यायेन देशमाक्रामयन् यदा ऽन्धकारे निरन्तरमालोकक्षणं जनयति, तदा आलोकसमीपवर्तिनमन्धकारमसमर्थ जनयति । ततो ऽसामर्थ्य तस्य, यस्य समीपवर्त्यालोकः । असामर्थ्य निवृत्ते तादृशो जायत आलोकः इत्येवं क्रमेणालोकनान्धकारोऽपनेयः ; तथोप्प्यस्पर्शेन शीलस्पर्शो निवर्तनीयः । यदा त्वालोकः तत्रैवान्धकारे देशे जन्यते तदा यतः क्षणादन्धकारदेशस्यालोकस्य जनकक्षण उत्पद्यते तत एवान्धकारोऽन्धकारान्तरजननासमर्थ उत्पन्नः । ततोऽसमर्थावस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनकः ततः तृतीये क्षणे निवृत्तो विरुद्धः, यदि शीघ्रं [६९ ] निवर्तते । जन्यजनकभावाच्च संतानयोर्विरोधो न क्षणयोः । यद्यपि च न संतानो नाम वस्तु तथापि संतानिनो वस्तुभूताः । ततोऽयं परमार्थः । न क्षणयोर्विरोधः अपि तु बहूनां क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा निवृत्तिधर्माणो भवन्तीति । संतानयोर्निव~-- निवर्तकत्वनिमित्ते च विरोधे स्थिते, सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावे न विरोध इतरेतरसंतानानिवर्तनात्तेषाम् । गतिधर्मा चालोको यां दिशमाक्रामति तदिग्वार्तनो विरोधिसंतानानिवर्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्रभा अन्धकारनिकटवर्तिन्यपि नान्धकारं निवर्तयति । अन्धकाराकान्तायां दिशि आलोकक्षणान्तरजननासामर्थ्यात् । कारणासामर्थ्यहेतुकृतं संताननिष्ठमेव बिरोधं दर्शयता ' भवतः' इति कृतम् । 'भवतः ' प्रबन्धेन वर्तमानस्य शीतस्पर्शसंतानस्याभावोऽन्यस्योष्णस्पर्शसंतानस्य भावे सतीति ।
ये त्वाहुः – न विरोधो वास्तवः इति, ते इदं वक्तव्याः । यथा न निष्पन्ने कार्ये कश्चिजन्यजनकभावो नाम दृष्टोऽस्ति - कारणपूर्विका तु कार्यप्रवृत्तिः, अतो वास्तवः एव [सः], तद्वन्न निवृत्ते वस्तुनि कश्चिदिष्टो नाम विरोधोऽस्ति । दह ननिमित्तं तु शीतस्पर्शस्य क्षणान्तरासामर्थ्य अतो विरोधोऽपि वास्तवः एव ।