________________
७०
न्यायाबिन्दुटोका
[३ परिच्छेदः
उदाहरणमाह -
शीतोष्णस्पर्शवत् ॥ ७६ ॥ शीतश्चाष्णश्च तावेव म्पर्शी, तयोरिव । शीतोष्णस्पर्शयोर्हि पूर्ववद्विरोधो योजनीयः । द्वितीयमपि विरोध दर्शयितुमाहपरस्परपरिहारास्थितलक्षणतया वा :
भावाभाववत् ॥ ७७ ॥ परस्परं 'परिहारः' परित्यागः तेन स्थितं ' लक्षणं ' रूपं ययोः तद्भावः परस्परपरिहारास्थितलक्षणता तया । इह यस्मिन् परिच्छिद्यमाने यत् व्यवच्छिद्यते तत् परिच्छिद्यमा ७० ]नमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम् । नीले च परिच्छिद्यमाने ताद्रूप्य - प्रच्युतिरवच्छिद्यते, तदव्यवच्छेदे नीलापरिच्छेदप्रसङ्गात् । तस्मात् वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ । नीला तु यइन्यद्रूपं तन्नीलाभावाव्यभिचारि; नीलस्य दृश्यस्य पीतादावुपलभ्यमाने अनुपलम्मादभावनिश्चयात् । यथा च नीलं स्वाभावं परिहरति तद्वदभावाव्यभिचारि पीतादिकमपि । तथा च भावाभावयोः साक्षा द्वरोधः , वस्तुनोस्तु अन्योन्याभावाव्यभिचारित्वाद्विरोधः । कम्य चान्यत्राभावावसायः ? यो नियताकारोऽर्थः तस्य । न त्वनियताकारोऽर्थः । क्षणिकत्वादिवत् । क्षणिकत्वं हि सर्वेषां नीलादीनां स्वरूपात्मकम् । अतो न नियताकारम् ; यतः क्षणिकत्वपरिहारेण न किंचिद्दश्यते । यद्येवं, अभावोऽपि न नियताकारः ? कथं न नियताकारो नाम; यावता वस्तुरूपविविक्ताकारः कल्पितो ऽभावः। ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्र असदवसीयते नानियतम् । एवं च नित्यत्वपिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः । एकात्मकत्वविरोधश्चायम् । ययोर्हि परस्परपरिहारेणावस्थानं तयोरेकत्वाभावः । अत एव लाक्षणिकोऽयं विरोध उच्यते । ‘लक्षणं' रूपं वस्तूनां प्रयोजनमस्येति कृत्वा । विरोधेन ह्यनेन वस्तुतत्त्वं विभक्तं व्यवस्था