________________
३ परिच्छेदः] न्यायाबिन्दुटोका क्तव्याः, आहोस्विदसिद्धसंबन्धे इत्याशय, सिद्धसंबन्धे प्रयोक्तव्या इति दर्शयितुमाहसर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्याः ॥ १७ ॥
[४७ ] सर्व एत इति । गमकत्वात्साधनानि, पराश्रितत्वाच्च धर्माः; साधनधर्मा एव साधनधर्ममात्रम् । मात्रशब्देनाधिकस्यापेक्षणीयस्य निरासः । तस्य ' अनुबन्धः ' अनुगमनं अन्वयः । सिद्धः साधनधर्ममात्रानुबन्धो यस्य स तथोक्तः । केन सिद्ध इत्याह । यथास्वं प्रमाणैरिति । यस्य साध्यधर्मस्य यदात्मीयं प्रमाणं तेनैव प्रमाणेन सिद्ध इत्यर्थः । स्वभावहेतूनां च बहुभेदत्वात् संबन्धसाधनान्यपि प्रमाणानि बहूनीति 'प्रमाणैः' इति बहुवचननिर्देशः । गमयितव्यत्वात्साध्यः, पराश्रितत्वाच्च धर्मः ‘साध्यधर्मः' । तदयं परमार्थः । न हेतुः प्रदीपवद्योग्यतया गमकः, अपि तु नान्तरीयकतया विनिश्चितः । साध्याविनाभावित्वनिश्चयनमेव हि हेतोः साध्यप्रतिपादनव्यापारः, नान्यः कश्चित् । प्रथमं बाधकेन प्रमाणेन साध्यप्रतिबन्धो निश्चेतव्यो हेतोः । पुनरनुमानकाले साधनं साध्यनान्तरीय सामान्येन स्मर्तव्यम् । ‘कृतकत्वं नामानित्यत्वस्वभावम् ' इति सामान्येन स्मृतमर्थ पुनर्विशेष योजयति — इदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेव ' इति । तत्र सामान्यस्मरणं लिङ्गज्ञानम् । विशिष्टस्य तु शब्दगतकृतकत्वस्यानित्यत्वस्वभावस्य स्मरणमनुमानज्ञानम् । तथा च सति अविनामावित्वज्ञानमेव परोक्षार्थप्रतिपादकत्वं नाम । तेन निश्चिततन्मात्रानुबन्धिसाध्यधर्मे स्वभावहेतवः प्रयोक्तव्याः, नान्यत्रेत्युक्तम् ।
यद्येवम् , संबन्धो निश्चेतव्यः साध्यस्य साधनेन सह; साधनधर्ममात्रानुबन्धम्तु साध्यस्य कस्मात् निश्चितोऽपि] मृग्यत इत्याह---
तस्यैव तत्स्वभावत्वात् ॥१८॥ तस्यैवेति सिद्धसाधनधर्ममात्रानुबन्धस्य । तत्स्वभावत्वादिति साधनधर्मस्वभावत्वात् । यो हि साध्यधर्मः साधनधर्ममात्रानुबन्धवान् स एव तस्य साधनधर्मस्य स्वभावो नान्यः ।