________________
न्यायाबिन्दुटीका [१ परिच्छेदः विषयोपादेयभूतः क्षणो गृहीतः, तदेन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसंगो निरस्तः । एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षामष्यते । व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्व चक्षुराश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि [११] विज्ञानस्य । एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवंजातीयकं तद्यदि स्यान्न कश्चिद्दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति ।
स्वसंवेदनमाख्यातुमाह - सर्वचित्तचैत्तानामात्मसंवेदनम् ॥ १० ॥
सर्वाचितेत्यादि । 'चित्तं' अर्थमात्रग्राहि । 'चैत्ताः' विशेषावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात्स्वसंविदिताः; नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् । नास्ति सा काचिच्चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् । येन हि रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् । इह च रूपादौ वस्तुनि दृश्यमानेऽन्तरः सुखाद्याकारः तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो नीलादिः सातादिरूपो वेद्यते इति शक्यं वक्तुम् । यतो नीलादिः सातरूपेणानुभूयत इति न निश्चीयते । यदि हि सातादिरूपोऽयं नीलादिरनुभूयत इति निश्चीयेत, स्यातदा तस्य सातादिरूपत्वम् । यस्मिन्रूपे प्रत्यक्षत्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत्प्रत्यक्षन् । न च नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलाद्यर्थादन्यदेव सातमनुभूयते नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति ज्ञानानुभवः । तच्च ज्ञानरूपं वेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च । तस्मात्प्रत्यक्षम् । ..
योगिप्रत्यक्षं व्याख्यातुमाह --- भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥११॥
___ 'भूतः' सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्यसत्यानि । भूतार्थस्य ‘भावना' पुनः पुनश्चेतसि विनि