________________
१ परिच्छेदः] न्यायबिन्दुटीका
तदेवं लक्षणमाख्याय यैः इन्द्रियमेव द्रष्ट कल्पितं मानसप्रत्यक्षलक्षणे च दोष उद्भावितः स्वसंवेदनं च नाभ्युपगतं योगिज्ञानं च, तेषां विप्रतिपत्तिनिराकरणार्थ प्रकारभेदं प्रत्यक्षस्य दर्शयन्नाह -
[१०] तत् चतुर्विधम् ॥ ७ ॥ तत् प्रत्यक्षम् ।
इन्द्रियज्ञानम् ॥ ८॥ इन्द्रियस्य ज्ञानमिन्द्रियज्ञानम् । इन्द्रियाश्रितं यत् ।
मानसप्रत्यक्षे परैर्यो दोष उद्भावितः तं निराकर्तुं मानसप्रत्यक्षलक्षणमाह - स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन सम
नन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ॥ ९ ॥ ___ स्वः आत्मीयो विषय इन्द्रियज्ञानस्य । तस्यानन्तरः । न विद्यतेऽन्तरमस्येत्यनन्तरः । अन्तरं च व्यवधानं विशेषश्चोच्यते । ततश्चान्तरे प्रतिषिद्धे समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सतीन्द्रियज्ञानविषयक्षणादुत्तरक्षणः एकसंतानान्तर्भूतो[ऽत्र] गृहीतः । स सहकारी यस्येन्द्रियविज्ञानस्य तत्तथोक्तम् । द्विविधश्च सहकारी। परस्परोपकारी एककार्यकारी च । इह च क्षाणके वस्तुन्यातशयाधानायोगात् एककार्यकारित्वेन सहकारी गृह्यते । विषयविज्ञानाभ्यां हि मनोविज्ञानमकं क्रियते यतः, तदनयोर्न परस्परसहकारित्वम् । ईदृशेनेन्द्रियविज्ञानेनालम्बनप्रत्ययभूतेनापि योगिज्ञानं जन्यते । तन्निरासार्थ समनन्तरप्रत्ययग्रहणं कृतम् । समश्चासौ ज्ञानत्वेन, अनन्तरश्चासावव्यवाहितत्वेन, स चासौ प्रत्ययश्च हेतुत्वात् , ' समनन्तरप्रत्ययः'। तेन जनितम् । तदनेनैकसंतानान्तर्भूतयोरेव इन्द्रियज्ञानमनोविज्ञानयोः जन्यजनकभावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति । ततो योगिज्ञानं परसंतानवर्ति निरस्तम् ।
- यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य, तदा गृहीतगृहणादासअितोऽप्रामाण्यदोषो निरस्तः । यदा चोन्द्रयज्ञान