________________
न्यायाबन्दुटोका [१ परिच्छेदः गृह्यमाणं स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् । न च संकेतकालभाविदर्शनाविषयत्वं वस्तुनः संप्रत्यस्ति । यथा हि संकेतकालभावि दर्शनमद्य निरुद्धं तद्वत् तद्विषयत्वमप्यर्थस्याद्य नास्ति । [९] ततः पूर्वकालदृष्टत्वमपश्यत् श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि ।
अनेनैव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेऽपि संकेतकालदृष्टत्वाग्रहणानिर्विकल्पकम् । तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहित
विभ्रमं ज्ञानं प्रत्यक्षम् ॥ ६ ॥ 'तया' कल्पनया कल्पनास्वभावेन रहितं' शून्यं सत् ज्ञानं यदभ्रान्तं तत् प्रत्यक्षमिति परेण सम्बन्धः । कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणं, न प्रत्येकमिति दर्शयितुं 'तया रहितं' ' यदभ्रान्तं' तत्प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दर्शितमिति । तिमिरमक्ष्णोविप्लवः । इन्द्रियगतमिद विभ्रमकारणम् । आशुभ्रमणमलातादेः । मन्दं हि भ्राम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते । तदर्थमाशुग्रहणेन विशेष्यते भ्रमणम् । एतच्च विषयगतं विभ्रमकारणम् । नावा गमनं नौयानम् । गच्छन्त्यां नावि स्थितस्य गच्छदृक्षादिभ्रान्तिरुत्पद्यत इति यानग्रहणम् । एतच्च बाह्याश्रयस्थितं विभ्रमकारणम् । संक्षोभो वातपित्तश्लेष्मणाम् । वातादिषु हि क्षोभं गतेषु ज्वलितस्तम्भादिभ्रान्तिरुत्पद्यते । एतच्चाध्यात्मगतं विभ्रमकारणम् । सर्वैरेव च विभ्रमकारणरिन्द्रियविषयबाह्याध्यात्मिकागयतैरिन्द्रियमेव विकर्तव्यम् । अविकृते इन्द्रिये इन्द्रियन्नान्त्ययोगात् । एते संक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः । आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते ; आशुनयनानयनादयो विषयस्थाः, आशुनयनानयने कार्यमाणेऽलातादावनिवर्णदण्डाभासा भ्रान्तिर्मवति ; हस्तियानादयो बाह्याश्रयस्थाः ; गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते । तैरनाहितो विनमो यस्मिंस्तत्तथाविधं ज्ञानं प्रत्यक्षम् ।