________________
१ परिच्छेदः] न्यायबिन्दुटोका कस्याव्युत्पन्नसंकेतस्य कल्पना । तत्र 'अभिलापसंसृष्टाभासा कल्पना' इत्युक्तावव्युत्पन्नसंकेतस्य न संगृह्यते । योग्यग्रहणे तु सापि संगृह्यते । यद्यप्याभेलापसंमृष्टाभासा न भवति तदहर्जातस्य बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव । या चामिलापसंसृष्टा सापि योग्या । तत उभयोरपि योग्यग्रहणेन संग्रहः ।।
____ असत्यमिलापसंसर्गे कुतो योग्यतावसितिरिति चेत् । अनियतप्रतिभासत्वात् । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् । ग्राह्यो ह्यर्थो विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् । यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति । विकल्पविज्ञानं त्वर्थानोत्पद्यते । ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् ।
कुतः पुनरेतत् विकल्पोऽर्थान्नोत्पद्यत इति ? अर्थसंनिधिनिरपेक्षत्वात् । बालोऽपि हि यावदृश्यमानं स्तनं ' स एवायम्' इति पूर्वदृष्टत्वेन न प्रत्यवमृश्यति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वत विज्ञानमसंनिहिताविषयम् । पूर्वदृष्टरयासंनिहितत्वात् । असंनिहितविषयं चार्थनिरपेक्षम् । अनपेक्षं च प्रतिभासनियमहतोरमावा इनियतप्रतिभासम् । तादृशं चाभिलापसंसर्गयोग्यम् । इन्द्रियविज्ञानं तु संनिहितमात्रग्राहित्वादर्थसापेक्षम् , अर्थस्य च प्रतिभासनियमहेतुत्वान्नियतप्रतिभासम् । ततो नाभिलापसंसर्गयोग्यम् । अत एव स्वलक्षणस्यापि वाच्यवाचकभावमभ्युपगम्यैतदविकल्पकत्वमुच्यते । यद्यपि हि स्वलक्षणमेव वाच्यं वाचकं च मवेत्, तथाप्यभिलापसंसृष्टार्थ विज्ञानं सविकल्पकम् ॥
__ न चन्द्रियविज्ञानं अर्थेन नियमितप्रतिभासत्वाद् अभिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् । श्रोत्रविज्ञानं तर्हि शब्दस्खलक्षणग्राहि । शब्दस्वलक्षणं च किंचिद्वाच्यं किंचिद्वाचकं इत्याभिलापसंसर्गयोम्यप्रतिभासं स्यात् । तथा च सविकल्पकं स्यात् । नैष दोषः । सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन