________________
न्यायबिन्दुटीका [१ परिच्छेदः त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् । न च प्रमाणामन्तरमस्ति । अतो गच्छदृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवति ॥ यदि मिथ्याज्ञानं कथं ततो वृक्षावाप्तिरिति चेत्, न ततो वृक्षावाप्तिः । नानादेशगामी हि वृक्षस्तेन परिच्छिन्नः । एकदेशनियतश्च वृक्षोऽवाप्यते । ततो यद्देशो गच्छदृक्षो दृष्टस्तद्देशो नावाप्यते, यद्देशश्चावाप्यते स न दृष्ट इति न तस्मात्कश्चिदर्थोऽवाप्यते । ज्ञानान्तरादेव तु वृक्षादिरर्थोऽवाप्यते । इत्येवमन्नान्तग्रहणं विप्रतिपत्तिनिरासार्थम् । तथा अभ्रान्तग्रहणेनाप्यनुमाने निवर्तिते कल्पनापोढग्रहणं विप्रतिपत्तिनिरासार्थम् । भ्रान्तं ह्यनुमानम् । स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेम प्रवृत्तत्वात् । प्रत्यक्षं तु ग्राह्ये रूपे न विपर्यस्तम् । न त्वविसंवादकमभ्रान्तमिह ग्रहीतव्यम् । यतः सम्यग्ज्ञानमेव प्रत्यक्षम् । नान्यत् ।
तत्र सम्यग्ज्ञानत्वादेवाविसंवादकत्वे लब्धे पुनरविसंवादकग्रहणं निष्प्रयोजनमेव । एवं हि वाक्यार्थः स्यात् - प्रत्यक्षाख्यं यदविसंवा. दकं ज्ञानं तत् कल्पनापोढमविसंवादकं चेति । न चानेन हिरविसंवादग्रहणेन किञ्चित् । तस्माद ग्राह्येऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह वेदितव्यम् ।
कीदृशी पुनः कल्पनेह गृह्यत इत्याह---- अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना ॥५॥
अभिलप्यतेऽनेनेति — अभिलापो' वाचकः शब्दः । अभिलपेन संसर्गः अभिलापसंसर्गः । एकस्मिज्ञानेऽभिधेयाकारस्याभिधानाकारण सह ग्राह्याकारतया मीलनम् । ततो यदैकस्मिज्ञानेऽभिधेयाभिधानयोराकारौ संनिविष्टौ भवस्तदा संसृष्टेऽभिधानाभिधेये भवतः । [८] अभिलापसंसर्गाय योग्योऽभिधेयाकाराभासो यस्यां प्रतीतौ सा तथोक्ता । तत्र काचित्प्रतीतिरमिलापेन संसृष्टाभासा भवति । यथा व्युत्पन्नसंकेतस्य घटार्थकल्पना घटशब्दसंसृष्टार्थावमासा भवति । काचित्वमिलापेनासंसृष्टाऽप्यभिलापसंसर्गयोग्याभासा भवति । यथा बाल