________________
१ परिच्छेदः ]
न्यायबिन्दुटीका
समवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति । तथा च गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति ।
मीयतेऽनेनेति मानम् । करणसाधनेन मानशब्देन सारूप्यलक्षणं प्रमाणमभिधीयते । लिङ्गग्रहणसम्बन्ध स्मरणस्य पश्चान्मानमनुमानम् । गृहीते पक्षधर्मे स्मृते च साध्यसाधनसम्बन्धेऽनुमानं प्रवर्तत इति पश्चात्कालभाव्युच्यते । चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति । यथार्थाविनाभावित्वादर्थं प्रापयत्प्रत्यक्षं प्रमाणम्, अद्भुत् अर्थाविनाभावित्वादनुमानमपि परिछिन्नमर्थं प्रापयत्त्रमा • णमिति ।
तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् ॥ ४॥
तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते । ततोऽयं वाक्यार्थः - ‘तत्र' तयोः प्रत्यक्षनुमानयोरिति समुदायनिर्देशः । प्रत्यक्षमित्येकदेशनिर्देशः । तत्र समुदायात्प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् । तत्र प्रत्यक्षत्वमनूद्य कल्पनापोढत्वमभ्रान्तत्वं च विधयते । यत्तद्भवतामस्माकं चार्थेषु साक्षात्का रिज्ञानं प्रसिद्धं तत्क - ल्पनापोढा भ्रान्तत्वयुक्तं द्रष्टव्यम् । न चैतन्मन्तव्यं कल्पनापोढाभ्रान्तत्वं चेदप्रसिद्धं किमन्यत्प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सदनूद्येतेति । यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां प्रसिद्धम् । तदनुवादेन कल्पनापोढ। भ्रान्तत्वविधिः । [७] कल्पनाया अपोढमपेतं 'कल्पनापोढम् ' । कल्पनास्वभावरहितमित्यर्थः । 'अभ्रान्तं' अर्थक्रिया क्षमे वस्तुरूपेऽविपर्यस्तमुच्यते । अर्थक्रियाक्षमं च वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् । तत्र यन्न भ्राम्यति तदभ्रान्तम् । एतच्च लक्षणद्वयं विप्रतिपत्तिनिराकरणार्थम् । म त्वनुमाननिवृत्त्यर्थम् । यतः कल्पनापोढग्रहणेवैवानुमानं निवर्तितम् । तत्रासत्यभ्रान्तग्रहणे गच्छद्दृक्षदर्शनादि प्रत्यक्षं कल्पनापोढत्वात् स्यात् । ततो हि प्रवृत्तेन वृक्षमात्रमवाप्यत इति संवादकत्वात्सम्यग्ज्ञानम् । कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का । तन्निवृत्त्यर्थमभ्रान्तग्रहणम् । तद्धि भ्रान्तत्वान्न प्रत्यक्षम् ।