________________
न्यायबिन्दुटीका [१ परिच्छेदः सम्बन्धः । तदयमर्थः - यस्मात्सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थासद्धिः तस्मात् 'तत् ' सम्यग्ज्ञानं व्युत्पाद्यते। यद्यपि च समासे गुणीभूतं सम्यग्ज्ञानं तथापीह प्रकरणे व्युत्पादायितव्यत्वात्प्रधानम् । ततः तस्यैव तच्छब्देन सम्बन्धः । 'व्युत्पाद्यते' इति । विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते ॥
व्युत्पाद्यत इति, चतुर्विधा चात्र विप्रतिपतिः । संख्यालक्षणगोचरफलविषया । तत्र संख्याविप्रतिपातं निरा कर्तुमाह -
द्विविधं सम्यग्ज्ञानम् ॥२॥ द्विविधमिति । द्वौ विधौ प्रकारावस्येति द्विविधम् । संख्याप्रदर्शनद्वारेण च व्यक्तिभेदो दर्शितो भवति । द्वे एव सम्यग्ज्ञानव्यक्ती इति । व्यक्तिभेदे प्रदर्शिते प्रतिव्यक्तिनियतं सम्यग्ज्ञानलक्षणमाख्यातुं शक्यम् । अप्रदर्शिते तु व्यक्तिभेदे सकलव्यक्त्यनुयायि सम्यग्ज्ञानलक्षणमेकं न शक्यं वक्तुम् । ततो लक्षणभेदकथनाङ्गमेव संख्याभेदकथनम् । अप्रदर्शिते तु व्यक्तिभेदात्मके संख्याभेदे लक्षणभेदस्य दर्शयितुमशक्यत्वात् । लक्षणनिर्देशाङ्गत्वादेव च प्रथमं संख्याभेदकथनम् । किं पुनस्तद् द्वैविध्यमित्याह -
[६] प्रत्यक्षमनुमानं च ॥३॥ प्रत्यक्षमिति प्रतिगतं आश्रितं अक्षम् । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा. २, २, १८) इति समासः । प्राप्तापन्नालंगतिपूर्वसमासेषु परवल्लिङ्गताप्रतिषेधात् अभिधेयवल्लिङ्गे सति सर्वालङ्गः प्रत्यक्षशब्द: सिद्धः । अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य न तु प्रवृत्तिानोमत्तम् । अनेन त्वक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लभ्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्च यत्किंचित् अर्थस्य साक्षात्कारि ज्ञान तत् प्रत्यक्षमुच्यते । यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यादिन्द्रियविज्ञानमेव प्रत्यक्षमुच्यत न मानसादि । यथा 'गच्छतीति गौः' इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थ