________________
१ परिच्छेदः] न्यायबिन्दुटीका वेशनम् । भावनायाः ‘प्रकर्षः' भाव्यमानार्थावभासस्य ज्ञानस्य स्फुटाभत्वारम्भः । प्रकर्षस्य ' पर्यन्तः' यदा स्फुटाभत्वमीषदसम्पूर्णं भवति । यावद्धि स्फुटाभत्वमपरिपूर्ण तावत्तस्य प्रकर्षगतिः । सम्पूर्ण तु यदा, तदा नास्ति प्रकर्षगतिः । ततः सम्पूर्णावस्थायाः प्राक्तन्यवस्था स्फुटाभत्वप्रकर्षपर्यन्त उच्यते । तस्मात्पर्यन्तात् यज्जातं भाव्यमानस्य अर्थस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानं [ तत् ] योगिनः [१२] प्रत्यक्षम् । तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः । अभ्रकव्यवहितमिव यदा भाव्यमानं वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था । करतलामलकवत् भाव्यमानस्यार्थस्य यद्दर्शनं तद्योगिनः प्रत्यक्षम् । तद्धि स्फुटाभम् । स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्पविज्ञानं हि संकेतकालदृष्टत्वेन वस्तु गृह्णत् शब्दसंसर्गयोग्यं गृह्णीयात् । संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नविनष्टं ज्ञानं सम्प्रत्यसत् , तद्वत्पूर्वविनष्टज्ञानविषयत्वमपि सम्प्रति नास्ति वस्तुनः । तदसद्रूपं वस्तुनो गृह्णदसंनिहितार्थग्राहित्वादस्फुटाभम् । अस्फुटाभत्वादेव च सविकल्पकम् । ततः स्फुटाभत्वानिर्विकल्पकम् । प्रमाणशुद्धार्थग्राहित्वाच्च संवादकम् । अतः प्रत्यक्षम् । इतरप्रत्यक्षवत् । योगः समाधिः । स यस्यास्ति स योगी । तस्य ज्ञानं प्रत्यक्षम् । इतिशब्दः परिसमाप्त्यर्थः, इयदेव प्रत्यक्षामेति ।
तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेदं प्रतिपाद्य विषयविप्रतिपत्तिं निराकर्तुमाह ---
तस्य विषयः स्वलक्षणम् ॥ १२ ॥
तस्य चतुर्विधप्रत्यक्षस्य विषयो बोद्धव्यः - स्वलक्षणम् । स्वमसाधारणं लक्षणं तत्त्वं ' स्वलक्षणम् ' । वस्तुनो ह्यसाधारणं. च तत्त्वमस्ति सामान्यं च । यदसाधारणं तत्प्रत्यक्षग्राह्यम् । द्विविधो हि प्रमाणस्य विषयः । ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः । प्रत्यक्षस्य हि क्षण एको ग्राह्यः । 'अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेन निश्चयेन संतान एव । संतान एव च प्रत्यक्षस्य प्रापणीयः । क्षणस्य प्रापयितुम