________________
न्यायबिन्दुटीका [१ परिच्छेदः शक्यत्वात् । तथानुमानमपि स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेरनर्थयाहि । स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनाध्यवसीयते यतः ; ततः स्वलक्षणमध्यवसितं प्रवृत्तिविषयोऽनुमानस्य, अनर्थस्तु ग्राह्यः । तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः ।
कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्याह-- [१३] यस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञान
प्रतिभासभेदः तत् स्वलक्षणम् ॥ १३ ॥
अर्थशब्दो विषयपर्यायः । यस्य ज्ञानविषयस्य । 'संनिधान' निकटदेशावस्थानम् । 'असंनिधानं ' दूरदेशावस्थानम् । तस्मात्सनिधानादसन्निधानाच 'ज्ञानप्रातभासस्य ' ग्राह्याकारस्य भेदः स्फुटवास्फुटत्वाभ्याम् । यो हि ज्ञानस्य विषयः सन्निहितः सन् स्फुटमाभासं ज्ञानस्य करोति, असन्निहितस्तु योग्यदेशावस्थित एवास्फुट करोति तत स्वलक्षणम् । सर्वाण्येव हि वस्तूनि दूरादस्फुटानि दृश्यन्ते, समीपे स्फुटानि । तान्येव स्वलक्षणानि ।
कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणम् ; तथा हि, विकल्पविषयोऽपि वहिदृश्यात्मक एवावसीयत इत्याह -
तदेव परमार्थसत् ॥१४॥ 'परमार्थः । अकृत्रिममनारोपितं रूपम् , तेनास्तीति परमार्थसत् । य एवार्थः सान्निधानासन्निधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसत् स एव, स एव च प्रत्यक्षविषयो यतः ; तस्मात् तदेव स्वलक्षणम् ।
कस्मात्पुनस्तदेव परमार्थसदित्याह - अर्थक्रियासामर्थ्यलक्षणत्वादेव वस्तुनः ॥ १५ ॥
अर्थ्यत इत्यर्थः, हेय उपादेयश्च । हेयो हि हातुमिष्यते उपादेयाश्चोपादातुम् । 'अर्थस्य ' प्रयोजनस्य 'क्रिया' निष्पत्तिः