________________
१ परिच्छेदः] न्यायाबिन्दुटीका तस्यां सामर्थ्य' शक्तिः तदेव ‘लक्षणं' रूपं यस्य वस्तुनः तदर्थक्रियासामर्थ्यलक्षणं, तस्य भावः, तस्मात् । वस्तुशब्दः परमार्थसत्पर्यायः । तदयमर्थः । यस्मादर्थक्रियासमर्थ परमार्थसदुच्यते, सन्निधानासन्निधानाभ्यां च ज्ञानप्रातभासस्य भेदकोऽर्थोऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसन् । तत एव हि प्रत्यक्षविषयादर्थक्रिया प्राप्यते । न विकल्पविषयात् । अत एव यद्यपि विकल्पविषयो दृश्य इवावसीयते [१४] तथापि न दृश्य एव । ततोऽर्थक्रियाऽभावात् । दृश्याच्च भावात् । अतः तदेव स्वलक्षणं न विकल्पविषयम् ।
अन्यत् सामान्यलक्षणम् ॥१६॥
एतस्मात्स्वलक्षणाद्यद् अन्यत्', स्वलक्षणं यो न भवति ज्ञानविषयः , तत् सामान्यलक्षणम् । विकल्पविज्ञानेनावसीयमानो ह्यर्थः सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासं न भिनत्ति । तथा हि, आरोग्यमाणो वह्निः आरोपात् अस्ति, आरोपाच्च दूरस्थो निकटस्थश्च । तस्य समारोपितस्य सन्निधानादसन्निवानाञ्च ज्ञानप्रतिभासस्य न भेदः, स्फुटत्वेनास्फुटत्वेन वा । ततः स्वलक्षणादन्य उच्यते । सामान्येन लक्षणं 'सामान्यलक्षणम्'। साधारणं रूपमित्यर्थः । समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् । ततः तत् सामान्यलक्षणम् । तच्चानुमानस्य ग्राह्यं दयितुमाह -
सोऽनुमानस्य विषयः ॥१७॥ · सोऽनुमानस्य विषयो ग्राह्यरूपः - सर्वनाम्नोऽभिधेयवल्लिङ्गपारिग्रहः । सामान्यलक्षणम् * अनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्तनीयः स्यात् । ततो लाघवार्थ प्रत्यक्षपरिच्छेदे एवानुमानविषयः उक्तः ।।
विषयविप्रतिपतिं निराकृत्य फलविप्रतिपत्ति निराकर्तुमाह -- तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलम् ॥१८॥
यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् ।