________________
न्यायबिन्दुटीका [१ परिच्छेदः कथं प्रमाणफलमित्याह --
अर्थप्रतीतिरूपत्वात् ॥ १९ ॥ अर्थस्य प्रतीतिरवगमः । सैव रूपं यस्य प्रत्यक्षज्ञानस्य तत् अर्थप्रतीतिरूपम् । तस्य भावः तस्मात् । एतदुक्तं भवति । प्रापक ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न [१५] केवलादर्थाविनाभावित्वाद्भवति । बीजाद्यविनाभाविनोऽप्यकुरादेरप्रापकत्वात् । तस्माद्राह्यादर्थादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्त्तव्यः प्रापणव्यापारः, येन कृतेनार्थः प्रापितो भवति । स एव च प्रमाणफलं यदनुष्ठानात् प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात् प्रवृत्तिविषयप्रदर्शनमेव प्रापकस्य प्रापणव्यापारो नाम । तदेव च प्रत्यक्षमर्थप्रतीतिरूपं अर्थ. दर्शनरूपम् । अतस्तदेव प्रमाणफलम् ।
___ यदि तर्हि ज्ञान प्रमितिरूपत्वात् प्रमाणफलं, किं तर्हि प्रमाणमित्याह --
अर्थसारूप्यमस्य प्रमाणम् ॥२०॥ अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत् प्रमाणमिह । नोन्द्रियादिकम् । यस्माद्विषयाज्ज्ञानमुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते ॥
ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणं, तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते । तत्कथं सारूप्यं प्रमाणमित्याह --
तदशादर्थप्रतीतिसिडेरिति ॥ २१ ॥
तदिति सारूप्यम् । तस्य वशात् सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिरवबोधः । तस्याः सिद्धिः । तसिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशासिद्धयति । प्रतीतं भवतीत्यर्थः । नीलनिर्भासं हि विज्ञानं यतः तस्मान्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं