________________
न्यायबिन्दुः
[२ परिषद
स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः । यथा वृक्षोऽयं शिंशपात्वादिति । कार्यं यथाऽभिरत्र धूमादिति । अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः । स्वभावप्रतिबन्धे हि सति अर्थोऽर्थ गमयेत् । तद्दप्रतिबद्धस्य तदव्यभिचारनियमाभावत् । स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य, वस्तुतः तादात्म्यात् साध्यादर्थादुत्पत्तेश्च । अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् । ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः ।
प्रतिषेधसिद्धिरपि यथेोक्ताया एवानुपलब्धेः । सति वस्तुनि तस्या असंभवात् । अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वात्मप्रत्यक्षनिवृत्तेः अभावनिश्चयाभावात् । अमूढस्मृतिसंस्कारस्वातीतस्य वर्तमानस्य च प्रतिपत्तप्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनी । तस्या एवाभावनिश्रयात् ।
साच प्रयोगभेदादेकादशप्रकारा ।
1
१. स्वभावानुपलब्धिर्यथा नात्र धूम उपलब्धिलक्षण नाप्तस्यानुपलब्धेरिति । २. कार्यानुपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति धूमाभावात् । ३. व्यापकानुपलब्धिर्यथा नात्र शिशपा वृक्षाभावादिति । ४. स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शोऽग्नेरिति । ५. विरुद्ध कार्योपलब्धिर्यथा नात्र शीतस्पर्शी धूमादिति । ६. विरुद्धव्याप्तोपलब्धिर्यथा न ध्रुवभावी भृतस्यापि भावस्य बिनाशो हेत्वन्तरापेक्षणादिति । ७. कार्यविरुडोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति अनरिति । ८ व्यापकविरुडोपलब्धिर्यथा नात्र तुषारस्पर्शोऽमेरिति । ९. कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावादिति । १० कारणविरुद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः संनिहितदहनविशेषत्वादिति । ११. कारणविरुद्धकार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति ।
इमे सर्वे कार्यानुपध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धी संग्रहमुपयान्ति । पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः । सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या
-