________________
धर्मकीर्तिप्रणीतं न्यायबिन्दुप्रकरणम् ।
प्रथमः परिच्छेदः। सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्व्युत्पाद्यते । द्विविधं सम्यग्ज्ञानं प्रत्यक्षमनुमानं च । तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् । अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना । तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं [च] ज्ञानं प्रत्यक्षम् ।..
____ तच्चतुर्विधम् । इन्द्रियज्ञानम्, स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् , सर्वचित्तचै! त्तानामात्मसंवेदनम्, भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । . तस्य विषयः स्वलक्षणम् । यम्यार्थस्य संनिधानासंनिधानाभ्यां. ज्ञानप्रातभासभेदः तत्स्वलक्षणम् । तदेव परमार्थसत् अर्थक्रियासामर्थ्यलक्षणत्वादेव वस्तुनः । अन्यत्सामान्यलक्षणम् । सोऽनुमानस्य विषयः । तदेव च प्रत्यक्ष ज्ञानं प्रमाणफलम् । अर्थप्रतीतिरूपत्वात् । अर्थसारूप्यमस्य प्रमाणम्। तद्वशादर्थप्रतीतिसिद्धरिति ॥
___ द्वितीयः परिच्छेदः। __ अनुमानं द्विधा । स्वार्थ परार्थ.च । तत्र स्वार्थ त्रिरूपाल्लिकाद्यदनुमेय ज्ञानं तदनुमानम् । प्रमाणफलव्यवस्थाऽत्रापि प्रत्यक्षवत् । त्रैरूप्यं पुनः लिङ्गस्यानुमेये सत्त्वमेव, सपक्षे एव सत्त्वम्, असपक्ष चासत्त्वमेव निश्चितम् । __अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी। साध्यधर्मसामान्येन समानोऽर्थः सपक्षः । न सपक्षोऽसपक्षः ततोऽन्यः तद्विरुद्धः तदभावश्चेति । त्रिरूपाणि च त्रीण्येव लिङ्गानि । अनुपलब्धिः स्वभावकार्ये चेति ।
तत्रानुपलब्धिर्यथा न प्रदेशविशेषे क्वचित् घटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । उपलब्धिम्क्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभाव[ विशेष ] ।