________________
- न्यायबिन्दुटीका [३ परिच्छेदः ये पूर्व न्यूनतादयः असिद्धविरुद्धानकान्तिका उक्ताः तेषां 'उद्भावनं' वचनं यत् तत् दूषणम् । ननु च न्यूनतादयो न विपर्ययसाधनाः, तत् कथं दूषणमित्याह-[९५] 'तेन' न्यूनतादिवचनेन परेषामिष्टश्चासौ अर्थश्च तस्य ‘सिद्धिः' निश्चयः तस्याः प्रतिबन्धात् । नावश्यं विपर्ययसाधनादेव दूषणं विरुद्धवत् आपे तु पास्याभिप्रेतनिश्चयनिबन्धात् निश्चयाभावो भवति निश्चयाविपर्यय इत्यस्त्येव विपययसिद्धिरिति ।
उक्ता दूषणा ।
दूषणाभासास्तु जातयः ॥१४०॥ : दूषणाभासा इति ! दूषणवदाभासन्त इति दूषणाभासाः । के ते । जातयः । जातिशब्दः सादृश्यवचनः । उत्तरसदृशानि जात्युत्तराणि | उत्तरस्थानप्रयुक्तत्वात उत्तरसदृशानि जात्युत्तराणि ।
तदेव उत्तरसादृश्यं उत्तरस्थानप्रयुक्तत्वेन दर्शयितुमाहअभूतदोषोद्भावनानि जात्युत्तराणि ॥१४१॥
'अभूतस्य' असत्यस्य दोषस्य · उद्भावनानि | उद्भाव्यत एतैरिति · उद्भावनानि ' वचनानि । तानि जात्युत्तरााणे । 'जात्या.' सादृश्येन उत्तराणि जात्युत्तराणीति ।
कतिपयपदवस्तुव्याख्यया यन्मयाप्तं कुशलममल मिन्दोरंशुवन्न्यायपिन्दोः । पदम नरमवाप्य ज्ञानधर्मोत्तरं य
जगदुपकृतिमात्रव्यापृतिः स्यामतोऽहम् ॥ आचार्यधर्मोत्तरपादविरचितायां न्यायबिन्दुटीकायां
तृतीयः [परार्थानुमान ] परिच्छेदः ।
समाप्तेयं न्यायविन्दुटीका कृतिराचार्यधर्मोत्तरस्य ॥०॥
सहस्रमेकं श्लोकानां तथा शतचतुष्टयम् । सप्तसप्ततिसंयुक्तं निपुणं परिपिण्डितम् ।।