________________
___ २१
२ परिच्छेदः] न्यायबिन्दुटीका व्यतिरेको वा नियमवानेव प्रयोक्तव्यो नान्यथेति दर्शयितुं द्वयोरप्युपादानं कृतम् । अनियमे हि द्वयोरपि प्रयोगेऽयमर्थः स्यात् - सपक्षे योऽस्ति विपक्षे च नास्ति स हेतुरिति । तथा च सति 'स श्यामः तत्पुत्रत्वात् दृश्यमानपुत्रवत्' इति तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः कर्तव्यः , येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगेऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थ द्वयोरुपादानमिति ।
- त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः । तेषां लक्षणं वक्तव्यम् । तत्र कोऽनुमेय इत्याह - . अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ॥८॥
'अत्र' हेतुलक्षणे निश्चतव्ये धर्मी अनुमयः । अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः। व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय इति दर्शयितुं अत्रग्रहणम् । 'जिज्ञासितः' ज्ञातुमिष्टः 'विशेषः ' धर्मो यस्य धर्मिणः स तथोक्तः ।
कः सपक्षः - साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ॥९॥
_ 'समानोऽर्थः सपक्षः'। समानः सदृशो योऽर्थः पक्षण स सिमक्ष उक्त उपचारात् समानशब्देन विशेष्यते । समानः पक्षः सपक्षः । समानस्य च सशब्दादेशः ॥ स्यादेतत् । किं [२१] तत् पक्षसपक्षयोः सामान्यं येन समानः सपक्षः पक्षणेत्याह - साध्यधर्मसामान्येनेति । साध्यश्वासावसिद्धत्वात् धर्मश्च पराश्रितत्वात् 'साध्यधर्मः' । न च विशेषः साध्यः , अपि तु सामान्यम् । अत इह सामान्य साध्यमुक्तं साध्यधर्मश्चासौ सामान्यं चेति । साध्यधर्मसामान्यन समानः पक्षेण · सपक्षः' इत्यर्थः । ___कोऽसपक्ष इत्याह --