________________
न्यायबिन्दुटीका
[ २ परिच्छेदः
पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वापः एकदेशेन सिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाज:, किंतु केचिदेव | सत्त्ववचनस्य पश्चात् कृतेन एवकारेण असाधारणो धर्मो निरस्तः । यदि मे एव सत्त्वमिति कुर्यात्, श्रावणत्वमेव हेतुः स्यात् । निश्चितग्रहणेन संदिग्धासिद्धः सर्वो निरस्तः ।
२०
सपक्ष एव सत्त्वम् [ निश्चितं ] ॥ ६ ॥ सपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नेव सत्त्वं निश्चितं द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः, स हि नास्ति सपक्षे ; एवकारेण साधारणानैकान्तिकः [ यथा ] ' अनित्यः शब्दः प्रमेयत्वात् ' । स हि न सपक्षे एव वर्तते किं तूभयत्रापि । सत्त्वग्रहणात्पूर्वावधारणवचनेन सपक्षाच्या पिसत्ताकस्यापि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् । पश्चादवधारणे त्वयमर्थः स्यात् सपक्षे सत्त्वमेव यस्य स हेतु:, इति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन संदिग्धान्वयो ऽनैकान्तिको निरस्तः, यथा ' सर्वज्ञः कश्चिद्वक्तत्वात् ' । वक्तृत्वं हि सपक्षे सर्वज्ञे संदिग्धम् ।
असपक्षे चासत्त्वमेव निश्चितम् ॥ ७ ॥
असपक्षो वक्ष्यमाणलक्षणः । तस्मिन्नसत्त्वमेव निश्चितं तृतीयं रूपम् । तत्रासत्त्वग्रहणेन विरुद्धस्य निरास, ' नित्यः शब्दः कृतकत्वात् खवत्'। विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षैकदेशवृतेोर्निरासः । प्रयत्नानन्तरीयकत्वे साध्ये ह्यनित्यत्वं विपक्षैकदेशे विद्युदादावास्त आकाशादो नास्ति । ततो नियमेनास्य निरासः । असत्त्ववचनात्पूर्वस्मिन्नवधारणेऽयमर्थः स्यात् विपक्षे एव यो नास्ति स हेतुः । तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि सर्वत्र नास्ति । ततो न हेतुः स्यात् । ततः पूर्वं न कृतम् । निश्चितI ग्रहणेन संदिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः ॥
-
ननु च सपक्षे एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एव, तत्किमर्थं पुनरुभयोरुपादानं कृतम् । उच्यते । अन्वय