________________
२ परिच्छेदः] न्यायाबिन्दुटोका प्रमाणफलव्यवस्थाऽत्रापि प्रत्यक्षवत् ॥४॥
प्रमाणस्य यत्फलं तस्य या व्यवस्था साऽत्रानुमानेऽपि प्रत्यक्षे इव ' प्रत्यक्षवत् ' वेदितव्या । यथा हि नीलसरूपं प्रत्यक्षमनुभूयमानं नीलबोधरूपमवस्थाप्यते, तेन नीलसारूप्यं व्यवस्थापनहेतुः प्रमाणम् , नीलबोधरूपं तु व्यवस्थाप्यमानं प्रमाणफलम् ; तद्वदनुमानं नीलाकारमुत्पद्यमानं नीलबोधरूपमवस्थाप्यते । तेन नीलसारूप्यमस्य प्रमाणम् । नीलविकल्पनरूपं त्वस्य प्रमाणफलम् । सारूप्यवशाद्धि तत् नीलप्रतीतिरूपं सिध्यति । नान्यथेति । एवमिह संख्यालक्षणफलविप्रतिप्रत्तयः ; प्रत्यक्षपरिच्छेदे तु गोचरविप्रतिपत्तिः निराकृता ।
लक्षणनिर्देशप्रसङ्गेन तु त्रिरूपं लिङ्गं प्रस्तुतम् । तदेव व्याख्यातुमाह --
त्रैरूप्यम् पुनः लिङ्गस्य यत् त्रैरूप्यं यानि त्रीणि रूपाणि । तदिदमुच्यत इति शेषः ।
किं पुनस्तत् त्रैरूप्यमित्याह - लिङ्गस्यानुमेये सत्वमेव [निश्चितं] ॥५॥
अनुमेयं वक्ष्यमाणलक्षणम् । तस्मिन् लिङ्गस्य सत्त्वमेव निश्चितं एक रूपम् । यद्यपि चात्र निश्चितग्रहणं न कृतं तथाप्यन्ते कृतं प्रक्रान्तयोर्द्वयोरपि [१९] रूपयोरपेक्षणीयम् । यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तं, यथा बीजमङ्कुरस्य; अदृष्टाडूमादग्नेरप्रतिपत्तेः । नापि स्वविषयज्ञानोत्पादापेक्षं परोक्षार्थप्रकाशनम् , यथा प्रदीपो घटादेः ; दृष्टादप्यनिश्चितसम्बन्धादप्रतिपत्तेः । तस्मात् परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः । नापरः कश्चित् । अतोऽन्वय-व्यतिरेक-पक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वादवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणमपेक्षणीयम् । तत्र सत्त्ववचनेन असिद्धं चाक्षुषत्वादि[त्यादि] निरस्तम् ; एवकारेण पक्षकदेशासिद्धः, यथा 'चेतनास्तरवः स्वापात् ' इति ।