________________
२२
न्यायबिन्दुटीका २ परिच्छेदः न सपक्षोऽसपक्षः ततोऽन्यस्तद्विरुडस्तद
भावश्चेति ॥ १० ॥ न सपक्षो ऽसपक्षः । सपक्षो यो न भवति सोऽसपक्षः । कश्च सपक्षो न भवति । 'ततः' सपक्षादन्यः । तेन च विरुद्धः। तस्य च सपक्षस्याभावः । सपक्षादन्यत्वं ताद्वरुद्धत्वं च न तावत्प्रत्येतुं शक्यं यावत् सपक्षस्वभावाभावो न विज्ञातः । तस्मादन्यत्वविरुद्धत्वप्रतीतिसामर्थ्यात्सपक्षाभावरूपी प्रतीतावन्यविरुद्धौ । ततोऽभावः साक्षात् सपक्षाभावरूपः प्रतीयते । अन्यविरुद्धौ तु सामर्थ्यादभावरूपौ प्रतीयते । ततस्त्रयाणामप्यसपक्षत्वम् ।
त्रिरूपाणि च त्रिण्येव लिङ्गानि ॥ ११ ॥
उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रिण्येव लिङ्गानीति । चकारो वक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम् । त्रिरूपाणि चोच्यन्ते । त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयास्त्ररूपलिङ्गप्रकारा इत्यर्थः । .
कानि पुनस्तानीत्याह -- अनुपलब्धिः स्वभावकार्ये चेति ॥ १२ ॥
प्रतिषेध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा । विधेयस्य साध्यस्य स्वभावस्त्रिरूपः । कार्य च ।
अनुपलब्धिमुदाहर्तुमाह -- [२२] तत्रानुपलब्धिर्यथा न प्रदेशविशेषे कचिद्धटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ॥ १३ ॥
यथेत्यादि । यथेत्युपप्रदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्याऽपि, न त्वियमेवेत्यर्थः । 'प्रदेश' एकदेशः । विशिष्यत इति ‘विशेषः । प्रतिपत्तृप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह - कचिदिति ।