________________
न्यायविन्दुरीका [३ परिच्छेद दृष्टान्तः । प्रसिद्धव्याप्तिकस्य साध्याभावे हेत्वभावप्रदर्शनात् वेधर्म्यदृष्टान्त उपादेय इति च दर्शितं भवति अस्मिश्चार्थे दर्शिते दर्शित एब दृष्टान्तो भवति । योऽयमों व्याप्तिसाधनप्रमाणप्रदर्शिनः कश्चिदुपादेयो निवृत्तिप्रदर्शनश्चेत्यस्मिन्नर्थे प्रदर्शिते दर्शितो दृष्टान्त इत्याहएतावन्मात्रं रूपं यस्य तस्य भावः तत्त्वं तस्मादिति । एतावदेव हि रूपं दृष्टान्तस्य यदुन व्याप्तिमाधनप्रमाणदर्शनत्वं नाम साधर्म्यदृष्टान्तम्य, प्रसिद्धव्याप्तिकस्य वा साध्यनिवृत्ती साधननिवृत्तिप्रदर्शकत्वमित्येतद्वैधयं दृष्टान्तस्य । तच हेतुरूपाख्यानादेवाग्यातमिति किं दृष्टान्तलक्षणेन । एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति ॥१२४॥
एतेनैव च हेतुरूपाख्यानात् दृष्टान्तत्वप्रदर्शनेन दृष्टान्तस्य दोषा दृष्टान्ताभासाः कथिता भवन्ति । तथाहि । पूर्वोक्तसिद्धये य उपादीयमानोऽपि दृष्टान्तो न समर्थः स्वकार्य साधयितुं स दृष्टान्तदोष इति सामर्थ्यादुक्तं भवति ।
दृष्टान्ताभासानुदाहरति---- यथा नित्यः शब्दोऽमूर्तत्वात् कर्मवत्परमाणुवद्धटव
दिति साध्यसाधनधर्मोभयविकला ॥१२५ ॥ ___ यथेति । नित्यः शब्द इति नित्यत्वे शब्दस्य साध्ये अमूर्तत्वादिति हेतुः । साधर्म्यण कर्मवत्परमाणुवद्बटवदित्येचे दृष्टान्ता उपन्यस्ताः । एते च दृष्टान्तदोषाः साध्यं च साधनं चोभयं चेति तैर्विकला : । साध्यविकलं कर्म तस्यानित्वात् । [८८] साधनविकलः परमाणुः मूर्तत्वात्परमाणूनाम् । असर्वगतं द्रव्यपरिमाणं मूर्तिः । असर्वगताश्च द्रव्यरूपाश्च परमाणवः । नित्यास्तु वैशेषिकरिष्यन्ते । ततो न साध्यविकलाः । घटस्तूभयविकलः , अनित्यत्वान्मूर्तत्वाच्च घटस्येति ।
तथा संदिग्धसाध्यधर्मादयश्च । यथा रागादिमानयं वचनाद्रथ्यापुरुषवत् । मरणधर्माऽयं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् । असर्वज्ञोऽयं
रागादिमत्वाद्रथ्यापुरुषवदिति ॥१२६॥