________________
३ परिच्छेदः ] न्यायविन्दुटीका
किमतो यदि नामैवामित्याह-तच्च सामान्यलक्षणं दर्शयितुका: मेन विशेषलक्षणं दर्शयता एवं दर्शनीयमिति संबन्धः । यत्र धूमस्तत्राग्निरिति कार्यहेतोर्व्याप्तिः दर्शिता । व्याप्तिश्च कार्यकारणभावसाधनात्प्रमाणात् निश्चीयते । ततो यथा महानस इति दर्शनीयम् । असत्यमौ न भवत्येव धूम इति व्यतिरेको दर्शितः । स च यथैतस्मिन्निति दर्शनीयः। वह्निनिवृत्तिर्हि धूमनिवृत्तौ नियता दर्शनीया । सा च महानसादितरत्र दर्शनीया ।
यत्र कृतकत्वं तत्रानित्यत्वमिति स्वभावहेतोर्व्याप्तिः दर्शिता । अनित्यत्वाभावे न भवत्येव कृतकत्वमिति व्यतिरेको दर्शितः । व्याप्तेश्च साधकं प्रमाणं साधर्म्य दृष्टान्त न] दर्शनीयम् । प्रसिद्ध व्याप्तिकस्य च हेतोः साध्यनिवृत्तौ निवृत्तिदर्शनीया । तदवश्यं 'यथा घटे' 'यथाकाशे' चेति दर्शनीयम् ।
कमादेवामित्याह-न हीति यस्मादन्यथा सामान्यलक्षणरूपे सपक्षविपक्षयोः सदसत्त्वे 'यथोक्तप्रकारे' इति नियते । सपक्ष एव सत्त्वं विपक्षेऽसत्त्वमेवेति नियमो यथोक्तप्रकारः । ते न शक्ये दर्शयितुम् । न च विशेषलक्षणं अन्यथा शक्यं दर्शयितुम् । तस्य साध्यस्य कार्य तत्काय धूमः तस्य भावस्तत्कार्यता सैव नियमः, यतः तत्कार्यतया धूमो दाहेन नियतः। सोऽयं 'तत्कार्यतानियमः' विशेषलक्षणरूपः अन्यथा दर्शयितुमशक्यः ; स्वभावलिङ्गस्य च स्वभावेन साध्येन व्याप्तिः विशेषलक्षणरूपा न शक्या दर्शयितम् । यस्मात् कार्यकारणभावः तादात्म्यं च महानसे घटे च ज्ञातव्यं, तस्मात् व्याप्तिसाधनं प्रमाणं दर्शयता साधर्म्य [८७] दृष्टान्तो दर्शनीयः । वैधर्म्यदृष्टान्तस्तु प्रसिद्धे तत्कार्यत्वे कारणाभावे कार्याभावप्रतिपत्त्यर्थम् । तत एव नावश्यं वस्तु भवति । कारणाभावे कार्याभावो वस्तुन्यवस्तुनि वा भवति । ततो वस्त्ववस्तु वा वैधHदृष्टान्त इष्यते । तस्मात दृष्टान्तव्यतिरेकेण हेतोरन्वयो व्यतिरेको वा न शक्यः दर्शयितुम् । अतो हेतुरूपाख्यानादेव हेतोर्व्याप्तिसाधनस्य प्रमाणस्य दर्शकः साधर्म्य