________________
न्यायाबिन्दुटोका [३ परिकरः स्यात् । दृष्टान्तश्च हेतुलक्षणादेवावसितः । ततो दृष्टान्तलक्षणस्य यत् प्रयोजनं दृष्टान्तप्रतीतिः तत् ‘गतं' निप्पन्नं, अभिधेयं वा ‘गतं' ज्ञातं दृष्टान्ताख्यम् ।
कथं गतार्थत्वामत्याह - हेतोः सपक्ष एव सत्त्वमसपक्षाच सर्वतो व्यावृत्ती रूपमुक्तमभेदेन । पुनर्विशेषेण कार्यस्वभावयोर्जन्मतन्मात्रानुबन्धी दर्शनीयावुक्तौ । तच्च दर्शयता यत्र धूमस्तत्राग्निः असत्यग्नौ न क्वचिडुमो यथा महानसेतरयोः, यत्र कृतकत्वं तत्रानित्यत्वमनित्यत्वाभावे कृतकत्वासंभवो यथा घटाकाशयोरिति दर्शनीयम् । न ह्यन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुम् । तत्कार्यतानियमः कार्यलिङ्गस्य स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः। अस्मिंश्चार्थे दर्शिते दर्शित एव दृष्टान्तो भवतिः एतावन्मात्र
रूपत्वात्तस्य ।। १२३ ॥ हेतो रूपमुक्तं 'अभेदेन' सामान्यन | साधारणं कार्यस्वभावानुपलभानामतल्लक्षणमित्यर्थः । किं पुनस्तत् । सपक्ष एव यत सत्वं विपक्षाच्च सर्वस्मात् व्यावृतिर्या । रूपद्वयमेतत् [८६] अभेदेनोक्तम् । न च सामान्यमुक्तमपि शक्यं ज्ञातुम् । अतस्तदेव विशेषनिष्ठ वक्तव्यम् । अतः पुनरपि ' विशेषेण ' विशेषवन्तौ जन्मतन्मात्रानुबन्धौ दर्शनीयावुक्तौ । कार्यस्य जन्म ज्ञातव्यमुक्तम् । जन्मान हि ज्ञाते कार्यस्य सपक्ष एव सत्त्वं विपक्षाच्च सर्वस्माट्यावृत्तिः ज्ञाता भवति । स्वभावस्य तन्मात्रानुबन्धो दर्शनीय उक्तः । 'तत्' इति साधनं, तदेव 'तन्मात्रं' साधनमात्रं ; साधनमात्रस्य ' अनुबन्धः अनुगमनं साधनमात्रभावे भावः साध्यस्य । तन्मात्रभावित्वमेव हि साधस्य तादात्म्यम् । साधनस्य यदा स्वभावो ज्ञातो भवति तदा स्वभावहेतोः सपक्ष एवं सत्त्वं विपक्षाच्च सर्वस्माब्यावृत्तिमता भवति । तदेवं सामान्यलक्षणं विशेषात्मकं ज्ञातव्यम् नान्यथा । ततो विशेषलक्षणमुक्तम् ।।