________________
३ परिच्छेदः] न्यायबिन्दुटीका तत्वात्कर्मणः । आकाशमुभयव्यतिरेकी, नित्यत्वात् अमूर्तत्वाच्च । साध्यं आदिर्येषां तानि साध्यादीनि साध्यसाधनोभयानि तेषां 'अव्यतिरेकः ' वृत्त्यभावः स येषामस्ति ते साध्याद्यव्यतिरेकिणः । ते चोदाहृताः ।
अपरानुदाहर्तुमाहतथा संदिग्धसाध्यव्यतिरेकादयः यथा ऽसर्वज्ञाः कपिलादयो ऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । अत्र वैधर्योदाहरणं यः सर्वज्ञ आप्तो वा स ज्योतिानादिकमुपदिष्टवान् तद्यथा ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः
संदिग्धो व्यतिरेकः ॥ १३१ ॥ तथेति । साध्यस्य व्यतिरेकः साध्यव्यतिरेकः संदिग्धः साध्यव्यतिरेको यस्मिन् स संदिग्धसाध्यव्यतिरेकः स आदिर्येषां ते तथोक्ताः । संदिग्धसाध्यव्यतिरेकमुदाहतुमाह-यथेति । असर्वज्ञा इत्येक साध्यम् ; ' अनाप्ताः ' अक्षीणदोषा इति द्वितीयम्। कपिलादय इति धर्मी । अविद्यमानसर्वज्ञतेत्यादि हेतुः। सर्वज्ञता च आप्तता च, तयोः ' लिङ्गभूतः प्रमाणातिशयः ' लिङ्गात्मकः प्रमाणविशेषः । अविद्यमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिंस्तत्तथोक्तं शासनं, तादृशं शासनं येषां ते तथोक्ताः तेषां भावः तत्त्वं, तस्मात् ।' प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि हि कपिलादयः सर्वज्ञा आप्ता वा म्युः तदा ज्योतिज्ञानादिकं कस्मात् नोपदिष्टवन्तः ? न चोपदिष्टवन्तः । तस्मात् न सर्वज्ञा आप्ता वा ।
[९१] 'अत्र' प्रमाणे वैधर्योदाहरणं यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततालिङ्गभूतमुपदिष्टवान्। यथा ऋषभो वर्धमानश्च तावादी यस्य स 'ऋषभवर्धमानादिः ' दिगम्बराणां शास्ता सर्वज्ञ आप्तश्चेति । तदिह वैधोदाहरणात् ऋषभादेः असवज्ञत्वस्य अनाप्ततायाश्च ‘व्यतिरेकः ' व्यावृत्तिः संदिग्धा ; यतो ज्योतिर्ज्ञानं चोपदिशेत् असर्वज्ञश्च भवेत् अनाप्तो वा ; कोऽत्र