SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ धर्मकीर्तिप्रणीतो न्यायबिन्दुः। आचार्यधर्मोत्तरविरचितटीकोपेतः । प्रथमः परिच्छेदः। ॥ ॐ नमः सर्वज्ञाय ॥ जयन्ति जातिव्यसनप्रबन्धप्रसूतिहेतोर्जगतो विजेतुः । रागाद्यरातेः सुगतस्य वाचो मनस्तमस्तानवमादधानाः ।। सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तयुत्पाद्यते ॥१॥ सम्यग्ज्ञानपूर्विकेत्यादिनास्य प्रकरणस्याभिधेयप्रयोजनमुच्यते । द्विविधं हि. प्रकरगशरीरं - शब्दोऽर्थश्चेति । तत्र शब्दस्य स्वाभिधेयप्रतिपादनमेव प्रयोजनम् । नान्यत् । अतस्तन्न निरूप्यते । आभिधेयं तु यदि निष्प्रयोजनं स्यात्तदा. तत्प्रतिपत्तये शब्दसन्दर्भोऽपि : नास्म्भणीयः स्यात् । यथा काकदन्तप्रयोजनाभावान्न तत्परीक्षा आरम्भणीया प्रेक्षावता । तस्मादस्य प्रकरणस्यारम्भणीयत्वं दर्शयता अभिधेयप्रयोजनमनेनोच्यते । यस्मात्सम्यग्ज्ञानपूर्विका [२] सर्वपुरुषार्थसिद्धिः तस्मात्तत्प्रतिपत्त्यर्थमिदमारभ्यत इत्ययमत्र वाक्यार्थः । ___ अत्र च प्रकरणाभिधेयस्य सम्यग्ज्ञानस्य सर्वपुरुषार्थसिद्धिहेतुत्वं प्रयोजनमुक्तम् । अस्मिंश्चार्थे उच्यमाने सम्बन्धप्रयोजनाभिधेयान्युक्तानि भवन्ति । तथा हि – पुरुषार्थोपयोगि सम्यग्ज्ञानं
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy