________________
न्यायबिन्दुटीका
[ १ परिच्छेदः व्युत्पादयितव्यमनेन प्रकरणेनेति ब्रुवता सम्यग्ज्ञानमस्य शब्दसंदर्भ - स्याभिधेयं तत्पादनं प्रयोजनं प्रकरणं चेदमुपायो व्युत्पादनस्येत्युक्तं भवति । तस्मादभिधेयभागप्रयोजनाभिधानसामर्थ्यात्सम्बन्धादीन्युक्तानि भवन्ति । न त्विदमेकं वाक्यं सम्बन्धमभिधेयं प्रयोजनं च वकुं साक्षात्समर्थम् । एकं तु वदत् त्र्यं सामर्थ्याद्दर्शयति । तत्र तदित्याभिधेयपदम् । व्युत्पाद्यत इति प्रयोजनपदम् । प्रयोजनं चात्र वक्तुः प्रकरणकरणव्यापारस्य चिन्त्यते श्रोतुश्च श्रवणव्यापारस्य । तथा हि- सर्वे प्रेक्षावन्तः प्रवृत्तिप्रयोजनमन्विष्य प्रवर्तन्ते । ततश्चाऽऽचार्येण प्रकरणं किमर्थं कृतं श्रोतृभिश्च किमर्थं श्रूयत इति संशये व्युत्पादनं प्रयोजनमभिधीयते । सम्यग्ज्ञानं व्युत्पाद्यमानानामात्मानं व्युत्पादकं कर्तुं प्रकरणमिदं कृतं; शिष्यैश्वाचार्य प्रयुक्तामात्मनो व्युत्पत्तीमिच्छद्भिः प्रकरणमिदं श्रूयत इति प्रकरणकरणश्रवणयोः प्रयोजनव्युत्पादनम् । सम्बन्धप्रदर्शनपदं तु न विद्यते । सामर्थ्यादेव तु स प्रतिपत्तव्यः । प्रेक्षावता हि सम्यग्ज्ञानव्युत्पादनाय प्रकरणमिदमारब्धवताऽयमेवोपायो नान्य इति दर्शित एवोपायोपेयभावः प्रकरणप्रयोजनयोः सम्बन्ध इति ।
3
1
ननु च प्रकरणश्रवणात्प्रागुक्तान्यप्यभिधेयादीनि प्रमाणाभावात्प्रेक्षावद्भिर्न गृह्यन्ते तत्किमेतैरारम्भप्रदेशे उक्तैः । सत्यम् । अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते । उक्तेषु त्वप्रमाणकेष्वप्यभिधेयादिषु संशय उत्पद्यते । संशयाच्च प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गम् प्रेक्षावताम् । अनर्थसंशयो निवृत्त्यङ्गम् । अत एव शास्त्रकारेणैव पूर्वं सम्बन्धादीनि युज्यन्ते वक्तुम् । आख्यातॄणां हि वचनं क्रीडाद्यर्थमन्यथापि सम्भाव्येत । शास्त्रकृतां तु प्रकरणप्रारम्भे न विपरीताभिधेयाद्याभिधाने प्रयोजनमुत्पश्यामो नापि प्रवृतिम् । अतस्तेषु संशयो युक्तः । अनुक्तेषु तु प्रतिपत्तृभिर्निष्प्रयोजनमभिधेयं संभाव्येतास्य प्रकरणस्य काकदन्तपरीक्षाया इव, अशक्यानुष्ठानं वा ज्वरहरतक्षक चूडारलालङ्कारोपदेशवत्, अनभिमतं वा