________________
१ परिच्छेदः] न्यायाबिन्दुटीका प्रयोजनं मातृविवाहक्रमोपदेशवत् । अतो वा प्रकरणाल्लघुतर उपायः [३] प्रयोजनस्य, अनुपाय एव वा प्रकरणं सम्भाव्येत । एतासु चानर्थसम्भावनास्वेकस्यामप्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिषूक्तेष्वर्थसम्भावना अनर्थसम्भावनाविरुद्धा उत्पद्यते । तया तु प्रेक्षावन्तः प्रवर्तन्ते इति प्रेक्षावतां प्रवृत्त्यङ्गमर्थसम्भावनां कर्तु सम्बन्धादीन्यभिधीयन्ते इति स्थितम् ।
अविसंवादकं ज्ञानं सम्यग्ज्ञानम् । लोके च पूर्वमुपदर्शितमर्थ प्रापयन्संवादक उच्यते । तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थ प्रापयत्संवादकमुच्यते । प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम् । नान्यत् । तथा हि-न ज्ञानं जनयदर्थ प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत्नापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात्प्रवर्तयितुं शक्नोति ज्ञानम् । अत एव चार्थाधिगतिरेव प्रमाणफलम् । अधिगते चार्थे प्रवर्तितः पुरुषः प्रापितश्चार्थः । तथा च सत्यर्थाधिगमात्समाप्तः प्रमाणव्यापारः । अत एवानधिगतविषयं प्रमाणम् । येनैव हि ज्ञानेन प्रथममधिगतोऽर्थस्तनैव प्रवर्तितः पुरुषः प्रापितश्चार्थः । तत्रैवार्थे किमन्येन ज्ञानेनाधिकं कार्यम् । ततोऽधिगतविषयमप्रमाणम् । तत्र योऽर्थो दृष्टत्वेन ज्ञातः स प्रत्यक्षेण प्रवृत्तिविषयीकृतः । यस्माद्यस्मिन्नर्थे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तस्य प्रदर्शकं प्रत्यक्षम् , तस्माद् दृष्टतया ज्ञातः प्रत्यक्षदर्शितः । अनुमानं तु लिङ्गदर्शनानिश्चिन्वत् प्रवृत्तिविषयं दर्शयति । तथा च प्रत्यक्षं प्रतिभासमानं नियतमर्थ दर्शयति, अनुमानं च लिङ्गसम्बद्धं नियतमर्थ दर्शयति । अत एते नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाणे । नान्याद्वज्ञानम् । प्राप्तुं शक्यमर्थमादर्शयत्प्रापकम् । प्रापकत्वाच्च प्रमाणम् । आभ्यां प्रमाणाभ्यामन्येन ज्ञानेन दर्शितोऽर्थः कश्चिदत्यन्तविपर्यस्तः, यथा मरीचिकासु जलम्, स चासत्त्वात्प्राप्तुमशक्यः । कश्चिदनियतो भावाभावयोः , यथा
माणव्यापारः ।
ऽथस्तनैव प्रवर्तितः माणम् । येनैव हि
भासमानं नियसन्चत् प्रवृत्तिविषय वा प्रत्यक्ष