________________
४
न्यायाबिन्दुटोका [१ परिच्छेदः संशयार्थः । न च भावाभावाभ्यां युक्तोऽर्थो जगत्यास्ति । ततः प्रातुमशक्यस्तादृशः । सर्वेण चालिङ्गजेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत एवार्थो दर्शयितव्यः । स च प्राप्तुमशक्यः । तस्मादशक्यप्रापणमत्यन्तविपरीतं भावाभावानियतं चार्थ दर्शयदप्रमाणमन्यज्ज्ञानम् ।
अर्थक्रियार्थिभिश्वार्थक्रियासमर्थार्थप्राप्तिनिमित्तं ज्ञानं मृयते । यच्च तैर्मृग्यते तदेव . शास्त्रे विचार्यते । ततोऽर्थक्रियासमर्थवस्तुप्रदर्शक [४] सम्यग्ज्ञानम् । यच्च तेन प्रदर्शितं तदेव प्रापणीयम् । अर्थाधिगमात्मकं हि प्रापणमित्युक्तम् । तत्र प्रदर्शितादन्यद्वस्तु भिन्नाकारं भिन्नदेशं भिन्नकालं च । विरुद्धधर्मसंसर्गाद्धयन्यद्वस्तु । देशकालाकारभेदश्च विरु द्वधर्मसंसर्गः । तस्मादन्याकारवद्व तुग्राहि नाकारान्तरवति वस्तुनि प्रमाणम् । यथा पीतशङ्खग्राहि शुक्ले शङ्के । देशान्तरस्थग्राहि च न देशान्तरस्थे प्रमाणम् | यथा कुञ्चिकाविवरदेशस्थायां मणिप्रभायां मणिग्राहि ज्ञानं नापवरकदेशस्थे मणौ । कालान्तरयुक्तग्राहि च न कालान्तरवंति वस्तुनि प्रमाणम् । यथार्द्धरात्रे मध्याह्नकालवस्तुग्राहि स्वप्न ज्ञान नार्द्धरात्रकालवस्तुनि प्रमाणम् ॥ ननु च देशनियतमाकारनियतं च प्रापयितुं शक्यम् । यत्कालं तु परिच्छिन्नं तत्कालं न शक्यं प्रापयितुम् । नोच्यते यस्मिन्नेव काले परिच्छिद्यते तास्मन्नेव काले प्रापयितव्यमिति, अन्यो हि दर्शनकालोऽन्यश्च प्राप्तिकालः, किंतु यत्कालं परीच्छन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसायाच्च संतानगतमेकत्वं द्रष्टव्यमिति ।
सम्यग्ज्ञानं पूर्व' कारणं यस्याः सा तथोक्ता । कार्यात्पूर्व भवत् कारणं पूर्वमुक्तम् । कारणशब्दोपादाने तु पुरुषार्थसिद्धेः साक्षात्कारणं गम्येत । पूर्वशब्दे तु पूर्वमात्रम् । द्विविधं च सम्यग्ज्ञानम् - अर्थक्रियानिर्भासं , अक्रियासमर्थे च प्रवर्तकम् । तयो