________________
न्यायबिन्दुटीका [२ परिच्छेदः [३१] स्वभावानुपलब्धिर्यथा नात्र धूमः उपलब्धि
लक्षणप्राप्तस्यानुपलब्धेरिति ॥ ३२ ॥
प्रतिषेध्यस्य यः स्वभावः तस्यानुपलब्धिः । यथेति । 'अत्र' इति धर्मी ' न धूमः' इति साध्यम् । ' उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः' इति हेतुः । अयं च हेतुः पूर्ववद्व्याख्येयः ॥ १ ॥ कार्यानुपलब्धिर्यथा नेहाप्रतिबहसामर्थ्यानि धूम
कारणानि सन्ति धूमाभावात् ॥ ३३ ॥
प्रतिषेध्यस्य यत्कार्य तम्यानुपलब्धिरुदाहियते - यथेति । 'इह' इति धर्मी। ' अप्रतिबद्ध ' अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि । 'न सन्ति ' इति साध्यम् । 'धूमाभावात् ' इति हेतुः । कारणानि च नावश्यं कार्यवन्ति भवन्तीति कार्यादर्शनात् अप्रतिबद्धसामर्थ्यानामवाभावः साध्यः, न त्वन्येषाम् । अप्रतिबद्धशक्तीनि चान्त्यक्षणभावीन्येव, अन्येषां प्रतिबन्धसंभवात् । कार्यानुपलाब्धश्च यत्र कारणमदृश्यं तत्र प्रयुज्यते । दृश्ये तु कारणे दृश्यानुपलब्धिरेव गमिका । तत्र धवलगृहोपरिस्थितो गृहाङ्गणमपश्यनपि चतुर्पु पार्थेष्वङ्गणभित्तिपर्यन्तं पश्यति । भित्तिपर्यन्तसमं चालोकसंझकमाकाशदेशं धूमविविक्तं पश्यति । तत्र धूमाभावनिश्चयात्यद्देशस्थेन वह्निना जन्यमानो धूमस्तद्देश: स्यात् - तस्य वह्वेरप्रतिबद्धसामर्थ्यस्याभावः प्रतिपत्तव्यः । तद्गृहाङ्गणदेशेन च वह्निना जन्यमानो धूमस्तद्देशः स्यात । तम्मात्तद्देशस्य वढेरभावः प्रतिपतव्यः । तद्गृहाङ्गणदेशं भित्तिपरिक्षितं भित्तिपर्यन्तपरिक्षिप्तेन चालोकात्मना धूमविविक्तेनाकाशदेशेन सह धर्मिणं करोति । तस्मात् दृश्यमानादृश्यमानाकाशदेशावयवः प्रत्यक्षाप्रत्यक्षसमुदायो वयभावप्रतीतिसामर्थ्यायातो धर्मी न दृश्यमान एव । इहेति तु प्रत्यक्षनिर्देशो दृश्यमानभागापेक्ष:- न केवलमिहैव दृश्यादृश्यसमुदायो धर्मी अपि त्वन्यत्रापि । शब्दस्य क्षाणकत्वे साध्ये कश्चिदेव शब्द: प्रत्यक्षोऽन्यस्तु परोक्षः तद्वदिहापि । यथा चात्र [ ३२ ] धर्मी साध्यप्रतिपत्त्यधिकरणभूतो दृश्यादृश्यावयवो दर्शितः तद्वदुत्तरेष्वपि प्रयोगेषु स्वयं प्रतिपत्तव्यः ॥२॥