________________
२ परिच्छेदः] न्यायबिन्दुटीका व्यापकानुपलब्धिर्यथा नात्र शिंशपा
वृक्षाभावादिति ॥ ३४ ॥ प्रतिषेध्यस्य व्याप्यस्य यो व्यापको धर्मः तस्यानुपलब्धिरुदाहियते- यथेति । अत्र [इति] धर्मी । न शिंशपेति शिंशपाभावः साध्यः । वृक्षस्य व्यापकस्याभावादिति हेतुः । इयमप्यनुपलब्धिः व्याप्यस्य शिंशपात्वस्य दृश्याभावे प्रयुज्यते । उपलब्धिलक्षणप्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपश्लिष्टौ समुन्नतौ देशौ भवतः तयोरेकस्तरुगहनोपेतः अपरश्चैकशिलाघटितो निर्वृक्षकक्षः ; द्रष्टापि तत्स्थान्वृक्षान् पश्यन्नपि शिंशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्ष अप्रत्यक्षं शिंशपात्वम् । स हि निवृक्षे एकशिलाघटिते वृक्षाभावं दृश्यत्वाद दृश्यानुपलम्भादवम्यति, शिंशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे विषयेऽस्या अभावसाधनाय प्रयोगः ॥३॥
स्वभावविरुडोपलब्धिर्यथा नात्र
शीतस्पर्शोऽग्नेरिति ॥ ३५ ॥ . प्रतिषेध्यस्य स्वभावेन विरुद्धम्योपलब्धिरुदाहियते- यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शप्रतिषेधः साध्यः । वहेरिति हेतुः । इयं चानुपलब्धिः तत्र प्रयोक्तव्या यत्र शीतस्पर्शोऽदृश्यः । दृश्ये दृश्यानुपलब्धिप्रयोगात् । तस्मात् यत्र वर्णविशेषात् वह्निद्देश्यः शीतम्पर्शो दूरस्थत्वात् सन्नप्यदृश्यः तत्रास्याः प्रयोगः ॥ ४ ॥ विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शी
धूमादिति ॥ ३६ ॥ प्रतिषेध्येन यत् विरुद्धं तत्कार्यस्योपलब्धिर्गमिका । यथेति । अत्रेति धर्मी । न शीतस्पर्श इति शीतस्पर्शाभावः साध्यः । धूमादिति हेतुः। यत्र शीतस्पर्शः सन् दृश्यः स्यात् , तत्र दृश्यानुपलब्धिमिका । यत्र विरुद्धो वह्निः [३३] प्रत्यक्षः, तत्र विरुद्धोपलब्धिः । द्वयोरपि तु परोक्षत्वे विरुद्धकार्योपलब्धिः प्रयुज्यते । तत्र समस्तापवरकस्थं शीतं निवयितुं समर्थस्यामेरनुमापकं यदा विशिष्टं धूमकलापं निर्यान्तमप"बरकात् पश्यति तदा विशिष्टाद्वहेरनुमितात् शीतस्पर्शनिवृत्तिमनुमिमीते । इह दृश्यमानद्वारप्रदेशसहितः सर्वापवरकाम्यन्तरदेशो धर्मी साध्यप्रतिपत्त्यनुसरणात् पूर्ववत् द्रष्टव्यः ॥ ५ ॥