________________
न्यायबिन्दुटीका [२ परिच्छेदः विरुद्धव्याप्तोपलब्धिर्यथा न ध्रुवभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति ॥ ३७॥
प्रतिषेध्यस्य यत् विरुद्धं तेन व्याप्तम्य धर्मान्तरस्योपलब्धिरुदाहर्तव्या -- यथेति । 'ध्रुवं ' अवश्यं भवतीति ध्रुवभावी नेति ध्रुवभावित्वनिषेधः साध्यः । विनाशो धर्मी । 'भूतम्यापि भावस्य' इति धर्मिविशेषणम् । 'भूतस्य ' जातस्यापि विनश्वरः स्वभावो नावश्यंभावी किमुताजातस्य इत्यपिशब्दार्थः । जनकातोरन्यो हेतुः ‘हेत्वन्तरं' मुद्रादि - तदपेक्षते विनश्वरः- तम्यापेक्षणादिति हेतुः । हेत्वन्तरापेक्षणं नामाध्रुवभावित्वेन व्याप्तम् । यथा वाससि रागस्य रञ्जनादिहेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुई चाऽवभावित्वम् । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुहव्याप्त हेत्वन्तरापेक्षणदर्शनाद् ध्रुवभावित्वनिषेधः । इह ध्रुवभावित्वं नित्यत्वं अध्रुवभावित्वं चानित्यत्वम् । नित्यत्वानित्यत्वयोश्च परम्परपरिहारेणावस्थानात् एकत्र विरोधः । तथा च सति परस्परपरिहारवतोद्वयोः यत्रैक दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यानषेधश्च दृश्यतयाऽभ्युपगतस्य संभवति । यतः, एवं तादात्म्यनिषेधः क्रियते' यद्ययं दृश्यमानो नित्यो भवेत् नित्यरूपो दृश्येत । न च नित्यरूपो दृश्यते । तस्मान्न नित्यः' । एवं च प्रतिषेध्यस्य नित्यत्वस्य दृश्यमानात्मत्वमभ्युपगम्य प्रतिषेधः कृतो भवति । वस्तुनोऽप्य दृश्यस्य पिशाचादेर्यदि दृश्यघटात्मत्वनिषेधः क्रियते, दृश्यात्मत्वमभ्युपगम्य कर्तव्यः - ' यद्ययं दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत् , न च दृष्टः, तस्मान्न पिशाचः' इति । दृश्यात्मत्वाभ्युपगमपूर्वकः दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च [३४] तादात्म्यनिषेधः । तथा च सति, यथा घटस्य दृश्यत्वमभ्युपगम्य प्रतिषेधो दृश्यानुपलम्भादेव, तहत् सर्वस्य परस्परपरिहारवतोऽन्यत्र दृश्यमाने निषेधः दृश्यानुपलम्भादेव । तथा चास्यैवंजातीयकस्य प्रयोगस्य स्वभावानुपलब्धावन्तर्भावः ॥ ६ ॥ काविरुहोपलब्धिर्यथा नेहाप्रतिबद्धसामर्थ्यानि
शीतकारणानि सन्त्यग्नेरिति ॥ ३८ ॥
प्रतिषेध्यस्य यत् कार्य तस्य यत् विरुद्धं तस्योपलब्धेरुदाहरणम् - यथेति । इहेति धर्मी । अप्रतिबद्धं सामर्थ्य येषां शीतकारणानां