________________
२ परिच्छेदः ]
न्यायबिन्दुटीका
प्रवर्तते । तदेवमेतस्य त्रिविधस्याप्यभावव्यवहारस्य हरयानुपलब्धिः [३०] ' साधनी ' प्रवर्तिका । यद्यपि च ' नास्ति घट : ' इति ज्ञानमनुपलब्धेरेव भवति अयमेव चाभावानेश्चयः; तथापि यस्मात् प्रत्यक्षेण केवलः प्रदेश उपलब्धः, तस्मादू ' इह घटो नास्ति' इत्येवं च प्रत्यक्षव्यापारमनुसरत्यभावनिश्चयः; तस्मात् प्रत्यक्षस्य केवलप्रदेशग्रहणव्यापारानुसार्यभावनिश्चयः प्रत्यक्षकृतः । किञ्च दृश्यानुपलम्भनिश्चयकरणसामर्थ्यादेव पूर्वोक्तया नीत्या प्रत्यक्षेणैवाभावो निश्चितः । केवलमदृष्टानामपि सत्त्वसंभवात् । सत्त्वशङ्कया न शक्नोत्यसत्त्वं व्यवहर्तुम् । अतोऽनुपलम्भोऽभावं व्यवहारयति । दृश्यो यतोऽनुपलब्धः तस्मात् नास्ति इत्यतो दृश्यानुपलम्भोऽभावज्ञानं कृतं प्रवर्तयति न त्वकृतं करोति इत्यभावनिश्चयः अनुपलम्भात्प्रवृत्तोऽपि प्रत्यक्षेण कृतोऽनुपलम्भेन प्रवर्तित उक्त इत्यभावव्यहारप्रवर्तिन्यनुपलब्धिः ।
कस्मात्पुनरतीते वर्तमाने चानुपलब्धिर्गमित्याह
तस्या एवाभावनिश्चयात् ॥ ३० ॥
तस्या एव यथोक्तकालाया अनुपलब्धेरभावनिश्चयात् । अनागता ह्यनुपलब्धिः स्वयमेव संदिग्धस्वभावा । नाभावनिश्चयः अपि त्वतीतवर्तमानाया इति ।
तस्या असिद्धाया
संप्रत्यनुपलब्धेः प्रकारभेदं दर्शयितुमाह --
――
३१
साच प्रयोगभेदादेकादशप्रकारा ॥ ३१ ॥
सा चैषाऽनुपलब्धिरेकादशप्रकारा । एकादश प्रकारा अस्या इत्येकादशप्रकारा । कुतः प्रकारभेदः । प्रयोगभेदात् । ' प्रयोगः ' प्रयुक्तिः शब्दस्याभिधानव्यापार उच्यते । शब्दो हि साक्षात्काचिदर्थान्तराभिधायी क्वचित्प्रातेषेधान्तराभिधायी । सर्वत्रैव तु दृश्यानुपलब्धिरशब्दांपात्तापि गम्यत इति वाचकव्यापारभेदादनुपलम्भप्रकारभेदो न तु स्वरूपभेदादिति यावत् ।
प्रकारभेदाना