________________
३ परिच्छेदः ] न्यायबिन्दुरीका
नापि सात्मकानिरात्मकाच तस्यान्वयव्यतिरेकयोरभावनिश्चयः ॥ १०७॥
नापि सात्मकात् वस्तुनः तस्य प्राणादेः अन्वयव्यतिकयोरभावनिश्चयः । नापि च निरात्मकात् । सात्मकादनात्मकादिति च पञ्चमी व्यतिरकशब्दापेक्षया द्रष्टव्या।
कथमन्वयव्यतिरेकयोः नाभावनिश्चय इत्याह --- एकाभावनिश्चयस्यापरभाव निश्चय]
नान्तरीयकत्वात् ॥ १०८ ॥ एकस्य अन्वयस्य व्यतिरेकस्य वा योऽभावनिश्चयः स [एव] अपरस्थ द्वितीयस्य भाव[७९Jनिश्चयनान्तरीयकः भावनिश्चयस्य अव्याभिचारी, तस्य भावः तत्त्वं तस्मात् । यत एकामावनिश्चयोऽपर. भावनिश्चयनान्तरीयकः तस्मात् न द्वयोरे कत्राभावनिश्चयः। कस्मात्युनः एकस्याभावनिश्चयः अपर सद्भावनिश्चयाव्यभिचारीत्याह
अन्वयव्यतिरेकयोरन्योन्यव्यवच्छेदरूपत्वात् । अत एवान्वयव्यतिरेकयोः संदेहादनैकान्तिकः ।१०९।
अन्योन्यस्य 'व्यवच्छेदः' अभावः स एव रूपं ययोः तयोभावः तत्त्वं तस्मात् कारणात् । अन्वयव्यतिरेको भावाभावो । भावाभावौ च परस्परव्यवच्छेदरूपौ । यस्य व्यवच्छेदेन यत् परिच्छिद्यते तत् तत्परिहारेण व्यवस्थितन् । स्वाभावव्यवच्छेदेन च भावः परिच्छिद्यत । तस्मात् स्वाभावव्यवच्छेदेन भावो व्यवस्थितः । अभावो हि नीरूपः, यादृशो विकल्पेन दर्शितः । नीरूपतां च व्यवच्छिद्य रूप आकारवत् परिच्छिद्यते । तथाच सति अन्वयाभावो व्यतिरेकः, व्यतिरेकाभावश्च अन्वयः । ततोऽन्वयाभावे निश्चिते व्यतिरेको निश्चितो भवति ; व्यतिरेकाभावे च निश्चित अवयो निश्चितो भवति । तस्मात् यदि नाम सात्मकं अवस्तु निरात्मकं च वस्तु, तथापि न तयोः प्राणादेः अन्वयव्यतिरेकयोः अभावनिश्चयः। एकवस्तुनि एकवस्तुनो युगपद्भावाभावविरोधात् तयोरभावनिश्चयायोगात् ।