________________
न्यायबिन्दुदीका
[ ३ परिच्छेदः
न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनी सदसती किंतु प्रमाणानुरोधात् इत्युभे संदिग्धे । ततः तयो प्राणादिमत्त्वस्व सदसत्वसंशयः । यत एव क्वचिदन्वयव्यतिरेकयोः न भावनिश्चयो नाप्य भावनिश्चयः तत एव अन्वयव्यतिरेकयोः संदेहः । यदि तु क्वचिदपि अन्वयव्यतिरेकयोः एकस्यापि अभावनिश्चयः स्यात् स एव द्वितीयस्य भावनिश्चय इत्यन्वयव्यतिरेकसंदेह एव न स्यात् । यतश्च न कचिद्भा वाभावनिश्चयः तत एव अन्वयव्यतिरेकयोः संदेहः । संदेहाच्चानैकान्तिकः । कस्मादुनैकान्तिकः ?
८०
[C] साध्येतरयोरतो निश्चयाभावात् ॥ ११०॥
सांध्यस्य इतरस्य च विरुद्धस्य अतः संदिग्धान्वयव्यतिरेकातू निश्चयाभावात् । सपक्ष विपक्षयोर्हि सदसत्त्वसंदेहे न साध्यस्य न विरुद्धस्य सिद्धिः । न च सात्मकानात्मकाभ्यां (च) पर प्रकार: संभवति । ततः प्राणादिमत्त्वात् धर्मिणि जीवच्छरीरे संशयः आत्मभावाभावयोः इत्यनैकान्तिकः प्राणादिरिति ।
त्रयाणां असिद्धौ संदेहे च हेतुदोषानुपपाद्य उपसंहरन्नाह एवं गां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोर सिद्धौ संदेहे च यथायोगमसिद्धविरु नैकान्तिकत्रयो हेत्वाभासाः ॥ १११ ॥ एवमित्यनन्तरोक्तेन क्रमेणैषां मध्ये एकैकं रूपं यत् असिद्ध संदिग्धं वा भवति । द्वे द्वे वा असिद्धे संदिग्धे वा भवतः । तदा असिद्धश्च विरुद्धश्व अनैकान्तिश्च ते हेत्वाभासाः । यथायोगनिति । यस्यासिद्धौ संदेहे वा यो हत्वाभासो युज्यते स तस्यासिद्धेः संदेहाच्च व्यवस्थाप्यत इति । यस्य यस्य येन येन योगः ' यथायोगं ' इति । ननु च आचार्येण
विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः ॥ ११२ ॥ हेत्वन्तरसाधितस्य विरुद्धं यत् तं न व्यभिचरति स ' विरुद्वा