________________
३ परिच्छेदः] न्यायविन्दुरीका व्यभिचारी' । यदि वा विरुद्धश्चासौ साधनान्तरसिद्धस्य धर्मस्य, विरुद्धसाधनादव्याभिचारी च, स्वसाध्याव्याभिचारात् 'विरुद्धाव्यभिचारी'। .
स इह नोक्तः। सत्यं उक्त आचार्येण | मया त्विह नोक्तः । कस्मादित्याह
• अनुमानविषयेऽसंभवात् ॥११३॥ अनुमानस्य विषयः प्रमाणसिद्धं त्रैरूप्यम् । यतो ह्यनुमानसद्भावः सः अनुमानस्य विषयः । प्रमाणसिद्धाच्च त्रैरूप्यात् अनुमानसद्भावः तस्मात् तदेवानुमानविषयः । तस्मिन् प्रक्रान्ते न [८] विरुद्धाव्यभिचारिसंभवः । प्रमाणसिद्धे हि त्रैरूप्ये प्रस्तुते स एव हेत्वाभासः संभवति यस्य प्रमाणसिद्ध रूपम् । न च विरुद्धाव्यभिचारिणः प्रमाणसिद्धं अम्ति रूपम् । अतो न संभवः । ततोऽसंभवात् नोक्तः ।
कस्मादसंभव इत्याहन हि संभवोऽस्ति कार्यस्वभावयोरुक्तलक्षणयो
रनुपलम्भस्य च विरुडतायाः ॥ ११४ ॥
न हीति । यस्मान्न संभवोऽस्ति विरुद्धतायाः। कार्य च स्वभावश्च तयोः उक्तलक्षणयोरिति । कार्यस्य कारणाजन्मलक्षणं तत्त्वम् ; स्वभावस्य च साध्यव्याप्तत्वं तत्त्वम् । यत् कार्य यश्चः स्वभावः स कथं आत्म यिं ] कारणं व्यापकं च खभावं परित्यज्य भवेत् येन विरुद्धः स्यात् । ' अनुपलम्भस्य च ' उक्तलक्षणस्येति । दृश्यानुपलम्भत्वं अनुपलम्भलक्षणम् । स्यादेतत् । एतेभ्योऽन्यो भविष्यतीत्याह
न चान्योऽव्यभिचारी ॥ ११५॥ न चान्य एतेभ्योऽव्यभिचारी त्रिभ्यः । अत एव तेष्वेव हेतुत्वम् ।
क ताचार्यदिग्नागेनायं हेतुदोष उक्त इत्याह -