________________
न्यायबिन्दुीका [२ परिच्छेदः उक्ता दृश्यानुपलब्धिः अभावेऽभावव्यवहारे च साध्य प्रमाणम् । अदृश्यानुपलब्धिस्तु किस्वभावा किंव्यापारा चेत्याह
विप्रकृष्टविषयानुपलब्धिः प्रत्यक्षानुमान
निवृत्तिलक्षणा संशयहेतुः ॥ ४८ ॥
विप्रकृष्टः त्रिभिर्देशकालस्वभावविप्रकर्षेः यस्या विषयः सा विप्रकृष्टविषयेति संशयहेतुः । किंस्वभावा सेत्याह - प्रत्यक्षानुमाननिवृत्तिः 'लक्षणं' स्वभावो यस्याः सा 'प्रत्यक्षानुमाननिवृत्तिलक्षणा' । ज्ञानज्ञेयस्वभावेति यावत् ।
[४.] ननु च प्रमाणात् प्रमेयसत्ताव्यवस्था; ततः . प्रमाणाभावात् प्रमेयाभावप्रतिपत्तिर्युक्तेत्याहप्रमाणनिवृत्तावप्यर्थाभावासिडेरिति ॥४९॥
प्रमाणनिवृत्तावपीत्यादि । कारणं व्यापकं च निवर्तमान कार्य व्याप्यं च निवर्तयेत् । न च प्रमाणं प्रमेयस्य कारणं नापि व्यापकं; अतः प्रमाणयोर्निवृत्तावप्यर्थस्य प्रमेयस्य निवृत्तिन सिध्यति । ततोऽसिद्धेः संशयहेतुरदृश्यानुपर ब्धिः, न निश्चयहेतु: । यत्पुनः प्रमाणसत्तया प्रमेयसत्ता सिध्यति, तद्युक्तम् । प्रमेयकार्य हि प्रमाणम् । न च कारणमन्तरेण कार्यमस्ति । न च कारणान्यवश्यं कार्यवन्ति भवन्ति । तस्मात् प्रमाणात् प्रमेयसत्ता व्यवस्थाप्या; न प्रमाणाभावात् प्रमेयाभावव्यवस्थेति ॥ इति न्यायबिन्दुटोकायां द्वितीयः [स्वार्थानुमान-]
परिच्छेदः समाप्तः ।