________________
अथ तृतीयपरिच्छेदः।
[१] स्वार्थपरार्थानुमानयोः स्वार्थ व्याख्याय परार्थ व्याख्यातुकाम आह
त्रिरूपलिङ्गाख्यानं परार्थानुमानम् ॥१॥
त्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि अन्वयव्यतिरेकपक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् । त्रिरूपं च तल्लिङ्गं च तस्याख्यानम् । आख्यायते प्रकाश्यतेऽनेन त्रिरूपं लिङ्गमिति · आख्यानम् ' । किं पुनस्तत् ? वचनम् । वचनेन हि त्रिरूपं लिङ्गमाख्यायते । परस्मायिदं परार्थम् ।
'ननु च सम्यग्ज्ञानात्मकमनुमानमुक्तम् ; तात्कमर्थ संप्रति वचनात्मकमनुमानमुच्यत इत्याह
कारणे कार्योपचारात् ॥२॥ कारणे कार्योपचारादिति । त्रिरूपालिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पद्यते, स्मृतेश्चानुमानम् । तस्यानुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन्कारणे वचने कार्यस्यानुमानस्य — उपचारः' समारोपः क्रियते । ततः समारोपात् कारणं वचनमनुमानशब्देनोच्यते । औपचारिकं वचनमनुमानं, न मुख्यमित्यर्थः । न च यावत्किंचित् उपचारादनुमानशब्देन वक्तुं शक्यं लावत्सर्व व्याख्येयम् , किं त्वनुमानं व्याख्यातुकामेनानुमानस्वरूपस्य व्याख्येयत्वात् निमितं व्याख्येयम् । निमित्तं च त्रिरूपं लिङ्गम् । तच्च स्वयं वा प्रतीतं अनुमानस्य [ ४२ ] निमित्तं भवति, परेण वा प्रतिपादितम् । तस्मात् लिङ्गस्य स्वरूपं व्याख्येयं, तत्प्रतिपादकश्च शब्दः । तत्र स्वरूपं स्वार्थानुमाने व्याख्यातम् । प्रतिपादकः शब्द इह व्याख्येयः । ततः प्रतिपादकं शब्दं अवश्यवक्तव्यं दर्शयन्ननुमानशब्देनोक्तवानाचार्य इति परमार्थः ।