________________
न्यायबिन्दुटीका [३ परिच्छेदः परार्थानुमानस्य प्रकारभेदं दर्शयितुमाह
तत् द्विविधम् ॥ ३॥ तदिति परार्थानुमानम् । द्वौ विधौ प्रकारौ यस्य तत् द्विविधम् । कुतो द्विविधमित्याह
प्रयोगभेदात् ॥ ४॥ प्रयोगस्य शब्दव्यापारस्य भेदात् । प्रयुक्तिः प्रयोगः अर्थाभिधानम् । शब्दस्यार्थाभिधानव्यापारभेदात् द्विविधमनुमानम् । तदेवाभिधानव्यापारनिबन्धनं द्वैविध्यं दर्शयितुमाह-- .
साधर्म्यवधर्म्यवच्चेति ॥५॥ समानो धर्मो यस्य सोऽयं सधर्मा तस्य भावः साधर्म्यम् । विसदृशो धर्मोऽस्य विधर्मा विधर्मणो भावो वैधर्म्यम् । दृष्टान्तधार्मिणा सह साध्यधर्मिणः सादृश्यं हेतुकृतं साधर्म्यमुच्यते । असादृश्यं च हेतुकृतं वैधर्म्यमुच्यते । तत्र यस्य साधनवाक्यस्य साधर्म्यमाभिधेयं तत् साधर्म्यवत् । यथा - यत् कृतकं तदनित्यं यथा घटः तथा च कृतकः शब्द इत्यत्र कृतकत्वकृतं दृष्टान्तसाध्यधर्मिणोः सादृश्यमभिधेयम् । यस्य तु वैधय॑मभिधेयं तत् वैधर्म्यवत् । यथा - यन्नित्यं तदकृतकं दृष्टं यथाकाशम् शब्दस्तु कृतक इति कृतकत्वाकृतकत्वकृतं शब्दाकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिहाभिधेयम् ।
यद्यनयोः प्रयोगयोरभिधेयं भिन्नं कथं तर्हि त्रिरूपं लिङ्गमाभिन्न प्रकाश्यामित्याह
[४३] नानयोरर्थतः भेदः कश्चित् ॥ ६ ॥
नानयोरर्थत इति । 'अर्थः ' प्रयोजनं प्रकाशयितव्यं वस्तु, यदुद्दिश्यानुमाने प्रयुज्यते । ततः प्रयोजनात् अनयोर्न भेदः कश्चित् । त्रिरूपं हि लिङ्गं प्रकाशयितव्यम् । तदुद्दिश्य द्वे अप्येते प्रयुज्यते ।