SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ३ परिच्छेदः] न्यायाबिन्दुटोका ८३ नास्ति । 'अवस्थितं' परमार्थसद्वस्तु, तदनतिक्रान्ता यथावस्थिता 'वस्तुस्थितिः ' व्यवस्था येषां ते यथावस्थितवस्तुस्थितयः । ते हि यथा वस्तु स्थितं तथा स्थिताः, न कल्पनया । अतः तेषु न भ्रान्तेरवकाशाऽस्ति येन विरुद्वाव्यभिचारिसंभवः स्यात् । तत्रोदाहरणं यत्सर्वदेशावस्थितैः स्वसंबन्धिभिः संबध्यते तत्सर्वगतम । यथाकाशम् । अभिसंबध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिर्युग- पत्सामान्यमिति ॥ ११९ ॥ 'तत्र' विरुद्धाव्याभिचारिणे उदाहरणम् । यत् सर्वस्मिन्देशेवस्थितैः स्वसंबन्धिभिः युगपत् अभिसंबध्यते तत् । सर्वदेशावस्थितैर-[८३ भिसंबध्यमानत्वं सामान्यस्यानूद्य सर्वगतत्वं विधीयते । तेन युगपदाभिसंबध्यमानत्वं सर्वगतत्वे 'नियतं' तेन व्याप्तं कथ्यते । इह सामान्य कणाइमहर्षिणा निष्क्रियं दृश्यं एक चोक्तम् ; युगपञ्च सर्वैः स्वैः स्वैः संबन्धि भः समवायेन संबद्धम् । तत्र पैलुकेन कणादशिष्येण व्यक्तिषु व्यक्तिरहितेषु च देशेषु सामान्य स्थितं साधयितुं प्रमाणमिदमुपन्यरतम् । यथाकाशमिति व्याप्तिप्रदर्शनविषयो दृष्टान्तः । आकाशमपि हि सर्वदेशावास्थतैर्वृक्षादिभिः स्वसंयोगिभिः युगपदभिसंबध्यमानं सर्वगतं च । आभिसंबंध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिः इति हेतोः पक्षधर्मत्वप्रदर्शनम् । अस्य स्वभावहेतत्वं प्रयोजयितुमाहतत्संबन्धिस्वभावमात्रानुबन्धिनी तद्दे शसंनिहितस्वभावता। न हि यो यत्र नास्ति स तद्देशमात्मना व्यापोतीति स्वभावहेतुप्रयोगः ॥१२०॥ तत्संबन्धीति । तेषां सर्वदेशावस्थितानां द्रव्याणां संबन्धी सामान्यस्य स्वभावः, स एव तत्संबन्धिस्वभावमात्रम् । तदनुबध्नातीति तदनुबन्धिनी। कासावित्याह - तद्देशसंनिहितरवभावता । तेषां संब
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy