________________
न्यायाबिन्दुटोका [ ३ परिमा कुत इत्याहसर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र
सवमसत्त्वं वा संदिग्धम् ॥ ९७ ॥
सपक्षभूतयोः सर्वज्ञवीतरागयोः ‘विप्रकर्षत् ' इति अतीन्द्रियत्वात् वचनादेः इन्द्रियगम्यस्यापि तत्र' अतीन्द्रिययोः सर्वज्ञत्ववीतरागत्वयाः सत्त्वमसत्त्वं वा संदिग्धम् । ततश्च न ज्ञायते किं वक्तृत्वं सर्वज्ञे उत न इत्यनै कान्तिक इति ।
___ संप्रति द्वयोरेव संदेहेऽनै कान्तिकं वक्तुमाह - अनयोरेव द्वयो रूपयोः संदेहेऽनैकान्तिकः ॥ ९८ ॥
अनयोरेव अन्वयव्यतिरेकरूपयोः संदेहात् संशयहेतुः । उदाहरणम् - [७] यथा सात्मकं जीवच्छरीरं प्राणादि
मत्त्वादिति ॥१९॥ सहात्मना वर्तते 'सात्मकम् ' इति साध्यम् । शरीरमिति धर्मी । जीवद्हगं धर्मिविशेषणम् । मृते ह्यात्मानं नच्छति । 'प्राणाः । आश्वासादय आदिर्यस्य उन्मेषनिमेषादेः प्राणिधर्मस्य म प्राणादिः, स यस्यास्ति तत् प्राणादिमत् जीवच्छरीरम्, तम्य भावस्तत्त्वं तम्मादित्येष हेतुः । अयमसाधारणः संशयहेतुरुपपादयितव्यः । पक्षधर्मस्य च द्वाभ्यां कारणाभ्यां संशयहेतुत्वम्- संशयविषयौ यावाकारौ ताभ्यां सर्वस्य वस्तुनः संग्रहात् ; तयोश्च व्यापकयोः आकारयोः एकत्रापि वृत्त्यनिश्चयात् । यकाभ्यां ह्याकाराभ्यां सर्व वस्तु न संगृह्यते तयोः आकारयोः न संशयः ; प्रकारान्तरसंभवे हि पक्षधर्मो धर्मिणमवियुक्त द्वयोरेकेन धर्मेण दर्शयितुं न शक्नुयात् अतो न संशयहेतुः स्यात् । द्वयोः धर्मयोरनियतं भावं दर्शयन् संशयहेतुः, द्वयोस्तु अनियतमपि भावं दर्शयितुमशक्तः अप्रतिपत्तिहेतुः, नियतं भावं दर्शयन् हेतुविरुद्धो वा स्यात् । तस्मात् यकाभ्यां सर्व वस्तु संगृह्यते तयोः