________________
२ परिच्छेदः] न्यायबिन्दुटोका
२७ गमकम् । यत् प्रतिबन्धविषयः तत् गम्यम् । यस्य च धर्मस्य यन्नियतः स्वभावः स तत्प्रतिबद्धः, यथा प्रयत्नानन्तरीयकत्वाख्यः अनित्यत्वे । यस्य तु स चान्यश्च स्वभावः स प्रतिबन्धविषयः, न तु प्रतिबद्धः । यथाऽनित्यत्वाख्यः प्रयत्नानन्तरीयकत्वाख्ये । निश्चयापेक्षो हि गम्यगमकभावः । प्रयत्नानन्तरीयकत्वमेव चानित्यस्वभावं निश्चितम् । अतः तदेवानित्यत्वे प्रसिद्धम् । तस्मान्नियतविषयः एव गम्यगमकभावो नान्यथेति ।
कस्मात्पुनः स्वभावप्रतिबन्धो लिङ्गस्य साध्येन इत्याह --- वस्तुतस्तादात्म्यात्साध्यादर्थादुत्पत्तेश्च ॥ २३ ॥
वस्तुत इत्यादि । स साध्योऽर्थः 'आत्मा' स्वभावो यस्य तत् तदात्मा तस्य भावः तादात्म्यं तत्स्वभावत्वं तस्मात् हेतोः। यतः साध्यस्वभावं साधनं, तस्म त् तत्तत्र स्वभावप्रतिबद्धमित्यर्थः । यदि साध्यस्वभावं साधनं, साध्यसाधनयोरभेदात् प्रतिज्ञार्थंकदेशो हेतुः स्यादित्याह- वस्तुत इति । परमार्थसता रूपेणाभेदस्तयोः; विकल्पविषयस्तु यत् समारोपितं रूपं तदपेक्षः साध्यसाधनभेदः । निश्चयापेक्ष एव हि गम्यगमकभावः । ततो निश्चयारूढरूपापेक्ष एव तयोर्भेदो युक्तः वास्तवस्तु अभेद इति । न केवलं तादात्म्यादपि तु ततः' ' साध्यादर्थादुत्पत्तेः ' लिङ्गस्य । तदुत्पत्तेश्च साध्येऽर्थे स्वभावप्रतिबन्धो लिङ्गस्य ।
कस्मात् निमित्तद्वयात् स्वभावप्रतिबन्धो लिङ्गस्य, नान्यस्मादित्याह -- अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्ध
स्वभावत्वात् ॥ २४ ॥ स स्वभावोऽस्य सोऽयं तत्स्वभावः, न तत्स्वभावः ‘अतस्वभावः । तस्मादुत्पत्तिरस्य सोऽयं तदुत्पत्तिः, न तथा ' अतदुसत्तिः' । यो यत्स्वभावो यदुत्पत्तिश्च [२७] न भवति तस्य तत्स्वभावस्यातदुत्पत्तेश्च । 'तत्र' अतत्स्वभावेऽनुत्पादके च । अ