________________
२६
न्यायाबिन्दुटीका [२ परिच्छेदः स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थ गमयेत् ॥ २०॥
स्वभावेन प्रतिबन्धः स्वभावप्रतिबन्धः । 'साधनं कृता' (पा. २, १, ३२) इति समासः । स्वभावप्रतिबद्धत्वं प्रतिबद्धस्वभावत्वमित्यर्थः । कारणे स्वभावे च साध्ये म्वभावेन प्रतिबन्धः कार्यस्वभावयोरविशिष्ट इत्येकेन समासेन द्वयोरपि संग्रहः । हिर्यस्मादर्थे । यस्मात स्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थं गमयेत् तस्मात् त्रयाणां गमकत्वं अन्येषामगमकत्वम् । .
कस्मात्पुनः स्वभावप्रतिबन्धे एव सति गम्यगमकभावो नान्यथेत्याह -- तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् ॥ २१ ॥
तदिति स्वभाव उक्तः । तेन स्वभावेनाप्रतिबद्धः । तदप्रतिबद्धः' । यो यत्र स्वभावेन न प्रतिबद्धः तस्य तदप्रतिबद्धस्य 'तदव्यभिचारनियमाभावात्। तस्य प्रतिबन्धविषयास्याव्यभिचारः तदव्यभिचारः तस्य नियमः तदव्यभिचारनियमः तस्याभावात् । अय. मर्थः- न हि यो यत्र स्वभावेन न प्रतिबद्धः स तमप्रतिबन्धविषयमवश्यमेव न व्यभिचरति, इति नास्ति तयोः 'अव्यभिचारनियमः' अविनाभावनियमः । अव्यभिचारनियमाच्च गम्यगमकभावः । न हि योग्यतया प्रदीपवत् परोक्षार्थप्रतिपत्तिनिमित्तमिष्टं लिङ्गम् , अपि त्वव्यभिचारित्वेन निश्चितम् । ततः स्वभावप्रतिबन्धे सत्यविनाभावनिश्चयः । ततो गम्यगमकभावः । तस्मात स्वभावप्रतिबन्धे सत्यर्थोऽर्थ गमयेत् नान्यथेति स्थितम् ।
ननु च परायत्तस्य प्रतिबन्धोऽपर यते । तदिह साध्यसाधनयोः कस्य व प्रतिबन्ध इत्याह -
[२६] स च साध्येऽर्थे लिङ्गस्य ॥ २२ ॥
' स च ' स्वभावप्रतिबन्धो लिङ्गस्य साध्येऽर्थे । लिङ्गं परायत्तत्वात् प्रतिबद्धम् । साध्यस्त्वर्थोऽपर यत्तत्वात् प्रतिबन्धविषयः न प्रतिबद्ध इत्यर्थः । तत्रायमर्थः - तादात्म्याविशेषऽपि यत् प्रतिबद्धं तत्