________________
२ परिच्छेदः] न्यायबिन्दुटीका तत्र प्रचुरशंशपे देशेऽविदितशिंशपाव्यवहारो जडो यदा केनचिदुच्चां शिंशपामुपादर्शोच्यते ' अयं वृक्षः' इति तदासौ जाड्याच्छिशपाया उच्चत्वमपि वृक्षव्यवहारानिमित्तमवस्यति । तदा यामेवानुच्चां शिंशपां पश्यति तामेवावृक्षमवस्यति । स मूढः शिंशपात्वमात्रनिमित्ते वृक्षव्यवहारे प्रवर्त्यते – 'नोच्चत्वादि निमितान्तरमिह वृक्षव्यवहारस्य, अपि तु शिंशपात्वमात्रं निमित्तम् ' । शिशपागतशाखादिमत्त्वं निमित्तामत्यर्थः ।
कार्यमुदाहर्तुमाह -
कार्य यथाग्निरत्र धूमादिति ॥१८॥
अमिरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः । कार्यकारणभावो लोके प्रत्यक्षानुपलम्भानिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् ।
ननु त्रिरूपत्वादेकमेव लिङ्गमयुक्तम् । अथ प्रकारभेदानेदः; एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्वात् त्रित्वमयुक्तमित्याह - अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेधहेतुः ॥ १९ ॥
_ 'अत्र' इति एषु त्रिषु हेतुषु मध्ये द्वौ हेतू 'वस्तुसाधनौ' विधेः साधनौ गमकौ । एकः प्रतिषेधस्य ‘हेतुः' गमकः । प्रतिषेध इति चाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः । तदयमर्थः-- हेतुः साध्यसिद्धयर्थत्वात् साध्याङ्गम् । साध्यं प्रधानम् । अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदात् भेदो न स्वरूपभेदात् । साध्यश्च कश्चिद्विधिः कश्चित्प्रतिषेधः । विधिप्रतिषेधयोश्च परस्परपरिहारेणावस्थानात् तयोः हेतू भिन्नौ । विधिरपि [२५] कश्चिद्धतोभिन्नः कश्चिदभिन्नः । भेदाभेदयोरपि अन्योन्यत्यागेनात्मस्थितेः भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधात् हेतवो भिन्ना न तु स्वत एवेति ।
कस्मात्पुनस्त्रयाणां हेतुत्वं कस्माच्चान्येषामहेतुत्वमित्याशङ्कय वथा त्रयाणामेव हेतुत्वमन्येषां चाहेतुत्वं तदुभयं दर्शयितुमाह --