________________
३७
३७
२ परिच्छेदः] न्यायविन्दुटीका तत्र कियतामपि ग्रहणे प्रसक्त आह- कार्यानुपलब्ध्यादय इति । कार्यानुपलब्ध्यादीनामपि त्रयाणां चतुणी वा ग्रहणे प्रसक्ते सत्याहदशेति । दशानामप्युदाहृतमात्राणां ग्रहणप्रसङ्गे सत्याह- सर्व इति । एतदुक्तं भवति । अप्रयुक्ता अपि प्रयुक्तोदाहरणसदृशाश्च सर्वे एवेति दशग्रहणमन्तरेण सर्वग्रहणे क्रियमाणे प्रयुक्तोदाहरणकान्यं गम्येत । दशग्रहणात्तु उदाहरणक.स्न्येऽवगते सर्वग्रहणं अतिरिच्यमानं उदाहृतसदृशकान्यावंगतये जायते । ते स्वभावानुपलब्धौ संग्रहं तादात्म्येन . गच्छन्ति । स्वभावानुपलब्धिस्वभावाः इत्यर्थः ।
[ ३७ ] ननु च स्वभावानुपलब्धिप्रयोगात् भिद्यन्ते कार्यानुपलब्ध्यादयः तत्कथं अन्तर्भवन्तीत्याहपारम्पर्येण अर्थान्तरविधिप्रतिषेधाभ्यां
प्रयोगभेदेऽपि ॥४४ ।। प्रयोगभेदेऽपि । 'प्रयोगम्य ' शब्दव्यापारस्य भेदेऽपि अन्तभवन्ति । कथं प्रयोगभेद इत्याह- अर्थान्तरविधीत्यादि । प्रतिषेध्यादथीदर्थान्तरस्य ‘विधिः' उपलब्धिः स्वभावविरुद्धाधुपलब्धिप्रयोगेषु । प्रतिषेधः कार्यानुपलब्ध्यादिप्रयोगेषु । अर्थान्तरविधिना अर्थान्तरप्रतिषधेन च प्रयोगा भिद्यन्ते । यदि प्रयोगान्तरप्वर्थान्तरविधिप्रतिपत्रौ, कथं तन्तिर्भवन्तीत्याह -- पारम्पर्येणेति । प्रणालिकयेत्यर्थः । एतदुक्तं भवति । न साक्षादेत प्रयोगा दृश्यानुपलब्धिमभिदधति ; दृश्यानुपलब्ध्यव्यभिचारिणं त्वर्थान्तरस्य विधिं निषेधं वाभिदधति । ततः प्रणालिकयाऽमीषां स्वभावानुपलब्धौ संग्रहो न साक्षादिति ।
यदि प्रयोगभेदेन भेदः, पराानुमाने वक्तव्य एषः । शब्दभेदो हि प्रयोगभेदः । शब्दश्च परार्थानुमानमित्याशङ्कयाह---- प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः ॥४५॥
प्रयोगदर्शनेत्यादि । प्रयोगाणां शास्त्रघटितानां 'दर्शनं ' उपसम्भः । तस्य 'अभ्यासः' पुनः पुनरावर्तनम् । तस्मानिमित्तात् ‘स्वयमपि ' इति प्रतिपत्तुरात्मनोऽपि ‘एवं' इत्यनन्तरोक्तेन क्रमेण 'व्यवच्छेदस्य' प्रतिषेधस्य प्रतीतिर्भवतीति । इतिशब्दः तस्मादर्थे । तदयमर्थः -- यस्मात् स्वयमप्येवं अनेमोपायेन प्रतिपद्यते प्रयोगाभ्यासात् तस्मात् स्वप्रतिपत्तावप्युपयुज्यमानस्यास्य प्रयोगभेदस्य स्वार्थानुमाने