________________
न्यायबिन्दुटीका २ परिच्छदः यथेति । अस्यति धर्मी । रोम्णां 'हषः ' उद्भेदः स आदिर्यषां दन्तवीणादीनां शीतकृतानां, ते [विशेषाः ] विशिप्यन्ते तदन्येभ्यो भयश्रद्धादिकृतभ्य इति · रोमहर्षादिविशेषाः' । ते न सन्तीति साध्यम् । दहनः एव विशिप्यते तदन्यस्माद्दहनात शीतनिवर्तनसामर्थ्यनेति दहनविशेषः । कश्चिद्दहनः सन्नपि न शीतनिवर्तनक्षमो यथा प्रदीपः । तादृशनिवृत्तये विशेषग्रहणम् । संनिहितो दहनविशेषो यस्य स तथोक्तः तस्य भावः तस्मादिति हेतुः । यत्र शीतस्पर्शः सन्नप्यदृश्यो रोमहर्षादिविशेपाश्चादृश्याः, तत्रायं प्रयोगः । रोमहर्षादिविशेषस्य दृश्यत्वे दृश्यानुपलब्धिः प्रयोक्तव्या; शीतम्पर्शम्य दृश्यत्वे कारणानुपलब्धिः । तस्मादभावसाधनोऽयम् । रूपविशेषाद्विदूरात् दहनं पश्यति, शीतम्पर्शम्त्वदृश्यो रोमहर्षादिविशेषाश्च । तेषां कारणाविरुहोपलब्ध्या अभावः प्रतिपद्यत इति तत्रास्याः प्रयोगः ॥ १० ॥ [३६] कारणविरुहकार्योपलब्धिर्यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमादिति ॥ ४२ ॥
प्रतिषे यस्य यत् कारणं तस्य यत् विरुद्धं तस्य यत् कार्य तस्योपलब्धिरुदाहर्तव्या- यथेति । अयं देश इति धर्मी। योगो ‘युक्तं', रोमहर्षादिविशेषयुक्तं रोमहर्षादिविशेषैर्युक्तम् । तस्य संबन्धी पुरुषा 'रोमहर्षादिविशेषयुक्तपुरुषः'। तद्वान् न भवतीति साध्यन् । धूमादिति हंतुः । रोमहर्षादिविशेषस्य प्रत्यक्षत्वे दृश्यानुपलब्धिः, कारणम्य शीतस्पर्शस्य प्रत्यक्षत्वे कारणानुपलब्धिः, वढेम्तु प्रत्यक्षत्वे कारणविरुहोपलब्धिः प्रयोक्तव्या । त्रयाणामप्यदृश्यत्वयं प्रयोगः । तस्मादभावसाधनोऽयम् । तत्र दूरस्थस्य प्रतिपतुः दहनशीतम्पर्शरोमहादिविशेषा अप्रत्यक्षाः सन्तोऽपि धूमस्तु प्रत्यक्षो यत्र, तत्रैतत्प्रमाणम् । धूमस्तु यादृशः तस्मिन्देशे स्थितं शीतं निवर्तयितुं समर्थस्य वढेरनुमापकः स इह ग्राह्यः । धूममात्रेण तु वह्निमात्रेऽनुमितेऽपि न शीतस्पर्शनिवृत्तिः नापि रोमहर्षादिविशेषनिवृत्तिरवसातुं शक्येति न धूममात्रं हेतुरिति द्रष्टव्यमिति ॥ ११ ॥
___ यद्येकः प्रतिषेधहेतुरुक्तः कथमेकादश अभावहेतव इत्याहइमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ सङ्ग्रहमुपयान्ति ॥४३॥ 'इमे' अनुपलब्धिप्रयोगाः । इदमा अनन्तरप्रक्रान्ता निर्दिष्टाः ।