________________
न्यायबिन्दुः
[३ परिच्छेदः साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति । अति तस्मिन् साध्येन हेतोरन्वयाभावात् । तथा वैधर्म्येणाप्यन्वयगतिः । असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः । न हि स्वभावप्रतिचन्धेऽसति एकस्य निवृत्तावपरस्य नियमेन निवृत्तिः । स च द्विप्रकारः सर्वस्य तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्चेत्युक्तम् । तेन हि निवृत्तिं कथयता प्रतिबन्धो दर्शनीयः । तस्मान्निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षास पक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावश्यं वाक्यद्वयप्रयोगः ।
अनुपलब्धावपि - यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एवे - त्युक्तेऽनुपलभ्यमानं तादृशमसदिति प्रतीतेरन्वयसिद्धिः । द्वयोरप्यनयोः प्रयोगे नावश्यं पक्षनिर्देशः । यस्मात्साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्व्यवहारविषयः ; नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति । तथा वैधर्म्यवत्प्रयोगेऽपि यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यत इत्युक्ते सामर्थ्यादेव नेह सद्व्यवहारविषय इति भवति ।
कीदृशः पुनः पक्ष इति निर्देश्यः । स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति । स्वरूपेणेति साध्यत्वेनेष्टः । स्वरूपेणैवेति साध्यत्वेनेष्टोन साधनत्वेनापि । यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः शब्देऽसिद्धत्वात्साध्यं, न पुनस्तदिह साध्यत्वेनैवेष्टं, साधनत्वनाप्यभिधानात् । स्वयमिति वादिना यः तदा साधनमाह । एतेन
freeछात्र स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन्धर्मियनेकधर्माभ्युपगमेऽपि यः तदा तेन वादिना धर्मः स्वयं साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति । इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सः, अनुक्तोऽपि वचनेन, तदधिकरणत्वाद्विवादस्य । यथा परार्थाश्चक्षुरादयः संघातत्वाच्छ्यनासनाद्यङ्गवदिति । अत्र आत्मार्था इत्यनुक्तावपि आत्मार्थता । तेन नोक्तमात्रमेव साध्यमित्युक्तं भवि इति । एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमान
साध्यः,