________________
३ परिच्छेदः ]
न्यायबिन्दुः
1
प्रतीतिस्ववचनैः निराक्रियते न स पक्ष इति प्रदर्शनार्थम् । तत्र प्रत्यक्षनिराकृतो यथा श्रावणः शब्द इति । अनुमाननिराकृतो यथा नित्यः शब्द इति । प्रतीतिनिराकृतो यथा अचन्द्रः शशीति स्ववचननिराकृतो यथा नानुमानं प्रमाणम् । इति चत्वारः पक्षाभासो: निराकृता भवन्ति । एवं सिद्धस्यासिद्धस्यापि साधनत्वेनाभिमतस्य स्वयं वादिना तदा साधयितुमनिष्टस्य उक्तमात्रस्य निराकृतस्य च विपर्ययेण साध्यः तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं दर्शितं भवति ।
त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभासः उक्तावपि असिद्धी संदेहे वा । प्रतिपाद्यप्रतिपादकयोरेकस्य रूपस्य धर्मिसंबन्धस्यासिद्धैा संदेहे वाऽसिद्धो हेत्वाभासः । यथाऽनित्यः शब्द इति साध्ये चाक्षुषत्व - मुभयासिद्धम् । चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धं विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्तस्य च तरुष्वसंभवात् । अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा सांख्यस्य स्वयं वादिनोऽसिद्धम् । तथा स्वयं तदाश्रयणस्य वा संदेहेऽसिद्धः । यथा बाप्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धा त्रुपदिश्यमानः संदिग्धासिद्धः । यथेह निकुञ्ज मयूरः के कायितादिति तदापातदेशविभ्रमे । धर्म्यसिद्धावपि असिद्धो यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभमानगुणत्वम् । तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धावनैकान्तिको हेत्वाभासः । यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः । तथाऽस्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव यथाऽसर्वज्ञः कश्चिद्विवक्षितः पुरुषो रागादिमान्वेति साध्ये - त्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः । सर्वज्ञो वक्ता नोपलभ्यते इत्येवंप्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन संदेहहेतुत्वात् । ततोऽसर्वज्ञविपर्ययाद्वक्तृत्वादेर्व्यावृत्तिः संदिग्धा । वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च । यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यति । संदेहात् । द्विविधो हि पदार्थानां विरोधः । अविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः शीतोष्णस्पर्शवत् परस्परपरिहार