________________
न्यायविन्दुः [३ परिच्छेदः न्वयोऽप्रदर्शितान्वयश्च यथा यो वता स रागादिसान् इष्टपुरुषवत; अनित्यः शब्दः कृतकत्वात् घटबादति । तथा विपरीतान्वयो यदनित्यं तत्कृतकमिति साधर्येण । वैधयेणापि परमाणुवत्कर्मवदाकाशवदिति साध्याद्यव्यतिरेकिणः । तथा संदिग्धसाध्यव्यतिरेकादयो यथा असर्वज्ञाः कपिलादयोऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । अत्र वैधोदाहरणं यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् तद्यथा ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः संदिग्धो व्यतिरेकः । संदिग्धताधनव्यतिरेको यथा न त्रयीविदा ब्राह्मणन ग्राह्यवचनः कश्चिद्विवाक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वैधर्योदाहरणं ये ग्राह्यवचना न ते रागादिमन्तः तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः संदिग्धा । संदिग्धोभयव्यतिरेको यथा अवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति । अत्र वैधर्योदाहरणं यो वीतरागो न तस्य परिग्रहाग्रही यथा ऋषभादेरिति । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः संदिग्धो व्यतिरेकः। अव्यतिरेको यथा अवीतरागो वक्तृत्वात् । वैधर्योदाहरणं यत्रावीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति । यद्यप्युपलखण्डादुभयं व्यावृत्तम् तथापि सर्वो वीतरागो न वक्तेति व्याप्च्या व्यतिरेकासिद्धेरव्यतिरेकः । अप्रदर्शितव्यतिरको यथा अनित्यः शब्दः कृतकत्वादाकाशवदिति । विपरीतव्यतिरेको यथा यदकृतक तन्नित्यं भवतीति ।
न ह्येभिदृष्टान्ताभासहेतोः सामान्यलक्षणं, सपक्ष एव सत्त्वं विपक्षे च सर्वत्रासत्त्वमेव, निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो वेदितव्यः ।
दूषणा न्यूनताद्युक्तिः। ये पूर्व न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् , तेन परेष्टार्थसिद्धिप्रतिबन्धात् । दूषणाभासास्तु जातयः ; अभूतदोषोद्भावनानि जात्युत्तराणीति । ... इति तृतीयः परिच्छेदः ।
न्यायविन्दुः समाप्तः ॥