________________
३ परिच्छेदः] न्यायबिन्दुटीका प्रमाणस्य विषयकथनमेतत् । 'शुद्धस्य' इति निर्विशेषगस्य स्वभावस्य प्रयोगः ।
सविशेषणं दर्शयितुमाहयदुत्पत्तिमत्तदनित्यमिति स्वभावभूतधर्मभेदेन ।
स्वभावस्य प्रयोगः ॥ १२॥ यदुत्पत्तिमदिति । ' उत्पत्तिः ' स्वरूपलाभो यस्त्रास्ति तत् उत्पत्तिमत् । उत्पत्तिमत्त्वमनूद्य ' तदनित्यम् ' इत्यनित्यत्वविधिः । तथा
च सति उत्पत्तिमत्त्वमनित्यत्वे नियतमाख्यातम् । ... ' स्वभावभूतः ' स्वभावात्मको धर्मः, तस्य ‘भेदेन ' भेदं हेतूकृत्य प्रयोगः । अनुत्पन्नभ्यो हि व्यावृत्तिमाश्रित्य उत्पन्नो भाव उच्यते । सैव व्यावृत्तिः यदा व्यावृत्त्यन्तरनिरपेक्षा वक्तुमिष्यते तदा व्यतिरेकिणीव निर्दिश्यते [यथा] भावस्योत्पत्तिरिति । तया च व्यतिरिक्तयेवोत्पत्त्या विशिष्टं वस्तु उत्पत्तिमदुक्तम् । तेन स्वभावभूतेन . धर्मेण कल्पितभेदेन विशिष्टः स्वभावः प्रयुक्तो द्रष्टव्यः । - यत्कृतकं तदनित्यामत्युपाधिभेदेन ॥ १३ ॥
यत्कृतकमिति कृतकत्वमनूद्यानित्यत्वं विधीयत इति । अनित्यत्वे नियतं कृतकत्वमुक्तम् , अतो व्याप्तिरनित्यत्वेन कृतकत्वस्य दर्शिता। उपाधिभेदेन स्वमावस्य प्रयोग इति संबन्धः । ' उपाधिः' वशेषणम् । तस्य ' भेदेन ' भिन्नेनोपाधिना विशिष्टः स्वभावः; प्रयुक्त इत्यर्थः । इह कदाचित् शुद्ध एवार्थ उच्यते, कदाचित् अव्यतिरिक्तन विशेषणेन विशिष्टः, कदाचित् व्यतिरिक्तेन । 'देवदत्तः' इति शुद्धः, 'लम्बकर्णः' इत्यभिन्नकर्णद्वयविशिष्टः , 'चित्रगुः' इति व्यतिरिक्तचित्रगवीविशिष्टः । तद्वत् सत्त्वं शुद्धम् , उत्पत्तिमत्त्वं अव्यतिरिक्तविशेषणम् , कृतकत्वं व्यतिरिक्तविशेषणम् ।
ननु च चित्रगुशब्दे व्यतिरिक्तस्य विशेषणस्य वाचकः चित्रशब्दो गोशब्दश्चास्ति; स्तकशब्दे तु निर्विशेषणवाचिनः शब्दस्य प्रयोगोऽस्तीत्याशङ्कयाह--